SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ 656 वेदप्रामाण्याक्षेपसमाधानम् [ पुरुषेच्छानुगुणा फलसिद्धिर्न भवति ] यत्तु * पशुविरह ' कृतकशतादिदो' दूयमानाधिकारिस्वरूपपर्यालोचनया सद्यः फलत्वमुच्यते - तदपि न सांप्रतम् - पुरुषेच्छा मात्रमेतत् न प्रमाणवृत्तम् ॥ 9 [ ऐहिकानामपि फलानां न क्रियासमनन्तरभावित्वनियमः ] 3 अपि च ऐहिक फस्य तावता सेत्स्यति न पुनः क्रियाफलवत् सद्यस्त्वम् । सन्ति चैहिकफलान्यपि कालान्तरसव्यपेक्षाणि कर्माणि । यथा- - ब्रह्मवर्चसकामस्य कार्ये विप्रस्य पञ्चमे इति । न तत्र पञ्चमवर्षे उपनीतमात्र एव माणवकः ब्रह्मवर्चस संपन्नो भवति, कालान्तरे तु भवतीति । एवं + वीर्यकामा दिष्वपि इष्टव्यम् । तस्मात् विधिफलानां आनन्तर्यनियमाभावात् न तद्विसंवाशे दोषाय । कालान्तरेऽपि यत्र फलादर्शनं, तत्र क्रियावैगुण्यकर्मान्तरप्रतिबन्धादि कारणमित्युक्तम् ॥ [मीमांसकोक्तानृतत्वपरिहारक्रमः ] अन्ये कर्षादिवैगुण्यकल्पनाननुमोदिनः । इहाफलस्य चित्रादेः फलमा मुत्रिकं जगुः ॥ १२१ ॥ [ न्यायमरी सर्वाङ्गोपसंहारेण काम्यक प्रयोगात कोऽवसरः कर्मवैगुण्य कल्पनायाम् ? जन्मान्तरे तु तत्फलमिति युक्ता कल्पना' ॥ [ फलकालभेदात् कर्मणां त्रिविधत्वम् ] तथा च त्रिविधं कर्म - किञ्चिदैहिकफलमेव, किञ्चिदामुष्मिकफलमेव, किञ्चिदनियतफलमेव' - इहामुत्र वा तत्फलप्रदम्-इति कल्पना ॥ * पशुविरहेति । पश्वभावकृतं यत् कदशनं कुत्सितं अशनं - कद, तेन दूयमानः चित्रेष्टयधिकारी | दधिक्षीराद्यभावेन समीचीनभोजनाभाव विनमनसः पश्वर्थ चित्रायां प्रवृत्तिः ॥ + वीर्य कामादिष्विति । ' राज्ञो बलार्थिनः षष्ठे वैश्यस्येद्दार्थिनोऽष्टमे ' इति मनुः (2-37 ) । ईदा - कृभ्यादिव्यापारः वैश्यधर्मः ॥ ' कृतकदर्शनादि दोष-क. किश्चिदामुष्मिकफकमेव-ख. 2 कराना-ख. दिनियमेव
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy