________________
654 वेदप्रामाण्याक्षेपसमाधानम्
न्यायमजरी * भूतस्वभाववादादि पुरस्तात् प्रतिषिध्यते ।
तस्मान्न मुपेतव्यं अबान्यदपि कारणम् ॥ ११९ ॥ तदुक्तं-'तञ्चैव हि तित्र कारणम् , शब्दश्च' (शा. मा. १-१-५) इति ॥
फलादर्शनस्थले प्रतिबन्धकं उह्यते यत्र पुनः अविगुणेऽपि कर्मणि प्रयुज्यमाने कालान्तरेऽपि पुत्रपश्वादिफलं न दृश्यते, तत्र तीव्र किमी प्राक्तन कर्म प्रतिबन्धक कल्पनीयम् । यत्रोक्तम् श्लो.वा. १-२.५ चित्रा. परि.)--
'फलनि यदि न सर्व तत्कदाचित्तदेव
ध्रुवमपरमभुक्तं कर्म शास्त्रं यमास्ते' इति।
कर्मादिगुण्यग्रहणमुगलक्षणार्थ ऋषिणा प्रयुक्तः। न तु वेदस्याप्रामाण्श्कल्पना साध्वी, साद्गुण्ये कर्मणः प्राचुरेण फलदर्शनात् । ___ अपि च-वित्रातः पशवो भवन्ति-इत्येतावानेव शास्त्रार्थः ।
आनन्तये तु न किञ्चित्रमाणमस्ति। तदयं प्रत्यक्षादिविसवादः आनन्तर्यविषयः। चित्रादिचोदना तु अनिर्दिएकालविशेषविषयेति विषयभेदान सा तेन वाध्यते। तदाह भट्टः (श्लो, वा. ५-१-५चित्रा. परि. ४)
'आनन्तर्यविसंवादः नाविशेषप्रवर्तिनीम्। चोदनां बाधितुं शक्तः स्फुटाद्विषयभेदतः' इति ॥
* भूतस्वभाववाद:-बस्स्व भाववाद:-कार्याकस्मिकतावादः।।
+तत्र-कालान्तरीणावादिफले चित्रैव कारणम् ; चित्राविधिरेवान प्रमाणमित्यर्थः ॥
* ननु अनृतदोषे आपादित कर्मवैगुण्यादिकथनेन किं साधितम् ? पूर्वपक्षोक्तवैफल्यमङ्गीकृतमेव खल्विति शङ्कायामाह-कर्मादी त। कस्यार्थस्योपलक्षण. मित्यत्राह-न वित्यादि। अनुपदोक्तप्रतिबन्धकदृष्टया प्राचुणेति ॥
आनन्तर्ये-समनन्तरभावित्वे। तेन--प्रत्यक्षविसंवादन ।। 1 संवादः-१. आनन्तर्याप-स्व.