________________
653
वेदप्रामाण्याक्षेपसमाधानम्
न्यायमरी ___न हि निन्दा निन्दितुमुपादीयते, किन्तु निन्दितादितरत् प्रशंसितुमित्ययमपि प्रकारोऽत्र न संभयति; कालत्रयस्याप्यत्र निषेधात् कस्यान्यस्य तन्निन्दया प्रशंसा विधीयते? तस्मात् परस्परविरुद्धार्थोपदेशलक्षणात् व्याघातात् अप्रमाणं वेदः .
पौनरुक्यं च वेदे दृश्यते पौनरुकन्याञ्च-'त्रिः प्रथमामन्वाह विरुत्तमाम्' इत्यभ्यास चोदनायां प्रथमोत्तमयोः सामिधेन्योः त्रिर्वचनात् पौनरुक्तयम् । सकृदनुवचनेन तत्प्रयोजनसंपत्तेः अनर्थकं त्रिर्धचनम्। तस्मात् इत्थमनृतव्याघातपुनरुकदोषकलुषितत्वात् अप्रमाणं वेदः। तदाह' सत्रकार:
"तदपामाण्यमनतव्याघातपुनरुक्तदोषेभ्यः पुत्रकामेष्टिहवनाम्पासेषु'
(न्या. सू. १-२-५६) इति ॥.
[वेदप्रामाण्यावरोधिदोषपरिहारः] अब समाधिनाह'न कर्मकर्तृसावनवैगुण्यात्'
(न्या. सू. १-२-५७) इति॥ . अयमाशयः-अप्रामाण्यसाधनं अनृतत्वं परैरुक्तम्। अनृतत्वे च साधनं फलादर्शनम्। एतञ्चानैकान्तिकम, अन्यथाऽपि फलादर्शनोपपत्तः। किं वेदस्यासत्यार्थत्वादत्र फलादर्शनम्? उत कादिवैगुण्यात् ? इति न विशेषहेतुरस्ति ॥
* 'तदप्रामाण्यमनृतव्याघातपुनरुतदोषेभ्यः' इत्येतावदेव प्रसिद्धः सूत्रपाठः।
-
1ववाह-ख.