________________
आद्विजन ४ विसंवादादेदप्रामाण्याक्षेपः
651 दिप्रमाणपरिच्छेदयोग्यार्थोपदेशित्वे सत्यपि तत्संबादशून्यत्वात्। एवंविधविप्रलभकवाक्यवत् ॥ - [चित्रादिष्टान्तेन अग्निहोत्रादीनामप्यफलस्वं सिध्यति] वित्रादिवचसामेवं अपवारस्य दर्शनात् । अनाश्वासोऽग्नहोत्रा दिवोदनास्वपि जायते ॥ ११६ ॥
अग्निहोत्रत्रोदना, मिथ्या-वेदैकदेशत्वात् , चित्रादिचोद. नावत् । तदत्र तावदसंवादात् अप्रामाण्यम् ॥ एवं 'पुत्रकामः पुत्रप्रया यजेत' इत्येवमादायपि असंवादोद्रष्टव्यः॥
कुत्रचित् विसंवादश्च] विसंवादोऽपि क्वचित् दृश्यते प्रीते *यजमाने पापचयनाख्यं कोपदिश्य एवमादिश वेदः ‘स पप यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकमंति' इति । तत्र 'पपः' इति तावत् आत्मनो निर्देशः क्लिष्ट एव, पिरोक्षत्वात, फ्यकालादियनायुधसंबन्धाभावाच कायरत्वेष निर्दिश्यते, स न स्वर्ग लोकं याति- इति ; तद्विपरीतभस्मीभावोपलं. भादति विसंवादः। एवञ्च असंवादविसंवादाभ्यां अप्रमाणं वेदः॥
. वेदवाक्येषु परस्परग्याहतिश्च] व्याघाताच-'उरित होतव्यम्', 'अनुदित होतव्यम् ', 'समयाध्युषि । हातव्या' इति होमकालत्रयमपि विधाय निन्दार्थवाद: तदेव निषेधनि-'श्यामो वा अस्याहुतिमभ्यवहरति, य उदिते जुहोति। शवलो वा अस्याहुतिमभ्यवहरति, योऽनुदिते जुहोति । श्यामशबलावस्याहुतिमभ्यवहरतः, यः समयाध्युषिते जुहोति' ॥
न चार्थवादमात्रमादति वक्तव्यम् । यतः-- विधानं 'कल्प्यते स्तुत्या निन्दया च निषेधनम्। विविस्तुत्योः समा वृत्तिः तथा निन्द निषेधयोः ॥ ११७ ॥
* यजमानः--आहिताग्निः। दशमे (जै सू.१०) इद चिन्तितम् ।। +परोक्षत्वादिति । एषः' इति हि प्रस्यक्षवनिर्दिश्यते॥
वृत्तिः-- व्यापारः। तथा च स्तुत्या विधे:, निन्दया निषेधस्य च प्रतीतौ सिद्ध एवं न्याघात
कत्सत-ख.