________________
आदिकम् ४] सागमानामपि वेदमूत्रत्वसंभवः
645 तु वर्त्मना निस्संख्यकाः प्राणिनोऽनुगृहीताः इति तत्र महानादरा, आगमान्तरेषु कृश इति ॥
एककर्तृके परस्परविरोधः कथमिति चेत्, वेदैरेवात्र वर्णितः समाधिः। तेष्वपि भूम्नः परस्परविरोधस्य दर्शनादित्युक्तम् । वसादीश्वरप्रणीतत्वादेव सर्वागमानां प्रामाण्यम् । . सर्वागमाना वेदमूलत्वात् प्रामाण्यमिति पक्षः]
अरे पुनः वेदमूलत्वेन सर्वागमभामाण्यमभ्युपगमन् । यो हि मन्वादि'देशनानां' वेदमूलतायां न्याय उक्तः-तं. वा. :-३-२)
'भ्रान्तेरनुभवाद्वाऽपि पुंवाफ्याद्विप्रलम्भकात् ।
दृष्टानुगुण्यसामर्थ्यात् चोदनय लघीयसी' । इति स सर्वागमेंषु समानः। न च मन्वादिस्मृतीनां मूलभूता युतिः उपलभ्यते । अनुमानेन तु तत्कल्पनमागमान्तरेऽवपि तुल्यम॥
[दागमामामपि वेदमूलकत्वसंभवः) ननु च! उक्तं अपि पा कर्तसामान्यात् प्रमाणमनुमान स्यात् ' (जै. सू. १-३-२) इति-तिचेह नास्ति, इति कथं श्रुत्यनु• मानम् ? नैष दोषः-- .. एकाधिकारावगमः न प्रामाण्ये प्रयोजकः। .
मिश्रानुष्ठानसिद्धौ तु काम भवतु कारणम् ॥ ९९ ।
* अपि चति । अपि वेति सिद्धान्तभूचनाय । अनुमान--स्मृतिः कर्तृ.. सामान्यात् - वेदोक्तानां स्मृत्युक्तानां च धर्माणां कर्तुः साधारणत्वात्, ये वैदिककर्माधिकारिणः, त एव स्मृत्युक्तकर्मण्यपीति स्मृति: प्रमाणम् ।
+ तत्-- एकाधिकारिकत्वम् ।।
मिश्रानुष्ठानसिद्धौ-वेचित केबलवैदिकाः, बेदित केवलरमार्ताः, वेचित्तु उभयरूपा इति विषये ॥
1देशनाया-क.