________________
642 आगमप्रामाण्यनिरूपणम्
|न्यायमभरी तद्भाये प्रामाच्याविरोधात्। न च *'हृदयक्रोशन हेतुकर्मोपदेशात् आगमान्तराणामप्रामाण्यम् ; तस्यामामाण्यतायां अप्रयोजकत्वात् ॥
विचिकित्सा हि नृशिरःकपालाद्यशनेषु या । साऽप्यन्यदर्शनाभ्यासभावनोपनिवन्धना ॥९७॥ तथा च शान्त चत्तानां सर्वभूतदयावताम् । पेदिकीप्वरि हिंसासु विचिकित्सा प्रवर्तते ॥९८.॥
[हिंसोपदेशमात्रात् नाप्रामाण्यम् ] अभिचारादिहिंसायां चैदिक्यामपि भवतु हृदयोत्कम्पः। किरणांशोपनिपातिनी हिंसेति लिप्सातस्तस्यां प्रवृत्तिः॥
या तु अग्नीषोमीयादिपशुहिंसा इतिकर्तव्यतांशस्था, यस्यां फत्वर्थो हि शास्त्रादवगम्यते इनि वैधी प्रवृत्तिः, तस्यामपि कारुणिको लोकः सविचिकित्सो भवति । वदति च 'यत्र प्राणियधो धर्मस्वधर्मः तत्र कीदृशः ? ' इति। न चैतावता येदस्याप्रामाण्यम् । एयमागमान्तरेयपि भविष्यति ॥
[विधिनिषेधादिकं तसदागमप्रतिनियसम्] यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरणकृतः कालान्तरे प्रत्यवायोऽवश्यंभावीत्युक्तम् --तदपि
*हृदयक्रोशनं--हृदयस्याक्र-दनम् । श्रूयते हि कुत्रचिदागमेषु नरबल्यादिकमपि ॥
+ विचिकित्सेत्यादि। अस्मदनभ्यासमात्रात इतरेष्वाचारेषु यद्यपि विचिकित्सा भवेत्। अथापि नाप्रामाण्यं तदागमस्य। अन्यथा वैदिकस्यापि सदुलमतेः यज्ञीयपशुइिंसायामपि हृदयं माक्रन्दत एवेत्यप्रामाण्यं स्यात् ॥
किरणांशे त। सोमप्रकृति के श्येने पशुहिंसनं शत्रुहिंसायाः साधनम् । भग्नीषोमीयादौ तु याग एव साधनं, पशुहिंसा तु इतिकर्तव्यतान्तर्गतेति विशेषः॥
क्रोशन-स.
गत-ख.
वैदी-ब.
.