SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ सर्व मानामधिकारिमेदेन प्रामाण्यम् [ उपायोपेविषये सर्वागमानामैककण्ठ्यन् ] तथा ह्यपवर्ग उपेतः सर्वशास्त्रेषु 'निर्दिश्यते । तदुपायः सर्वत्र ज्ञानमुपदिश्यते' । ज्ञानविषये तु विवदन्ते । तत्रापि प्रायशः आत्मविषयतायां बहूनामविप्रतिपत्तिः ॥ मह्निकम् ४] 1 प्रकृतिपुरुष विवेकज्ञानपक्षे तु प्रकृतेर्विविक्कतया पुरुष एव ज्ञेयः ॥ नैरात्म्यव दिनस्तु * आत्म शैथिल्यजननाय ' तथोपदिशन्ति ' स्वच्छं तु ज्ञानतत्त्वं यरिष्यते; तत् स्वातन्त्र्यात् अनाश्रितत्वात् आत्मकलामेव । कूटस्थनित्यत्वे प्रवाहनित्यत्वे च विशेषः ॥ [form अनैककषयं न दोषाय ] एवं प्रधानयोस्तावत् उपायोपेययोग विवादः । क्रिया तु विचित्रा प्रत्यागमं भवतु नाम । भस्मजटापरिग्रहो वा दण्डकमण्डलुग्रहण वा, रक्तपटधारणं वा, दिगम्बरता वाऽवलम्ब्यताम ! कोऽत्र विरोधः ? वेदेऽपि किमल्पीयांसः पृथगितिकर्तव्यता कल. पखचिताः स्वर्गेपायाच्चोदिताः ? तस्मात् परस्परविरोधेऽपि न प्रामाण्यविरोधः ॥ [ भागमप्रवक्तां सर्वज्ञत्वं समानम् ] अतश्च यदुच्यते- 611 'कपिलो यदि सर्वज्ञः सुगतो नेति का प्रमा? भावपि सर्वज्ञौ मतभेदस्तयोः कथम् ?" इति तदपास्तं भवति - प्रधाने सति भेदाभावात् । कविय * आत्मशैथिल्येति-अहंकारादिकलुषितस्यात्मनः शमिल्यं अहंकारप्रन्थिविश्लेषणम् ॥ 1 कूटस्थेत्यादि । कूटस्थनित्यः - स्वतः स्वरूपत एवं एकरूप: नामा वैदिकानाम् । बौद्धादीनां तु क्षणिकत्वादात्मनः प्रवाहत: नित्य बारमा | शून्य दिनान्त्वनिर्वचनीय एवेति न चर्चाविषय आत्मा ॥ 1 ' निर्दिश्यते - ख. KYATAMANJARI 'अशिन्ति
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy