________________
आह्निकम् ४] वैदिक-बौद्धागमयोवेलक्षण्यम्
639. उत्थापयितुं शक्यते 'वन्दकादिः', किं त्वयमेव *चातुर्वर्ण्यादिमहाजनः । स चैष महाजनः वेदविरुद्धमागमं परिहरत्येव, नानुमोदते॥
संसारमोचकं स्पृष्टा शिष्टाः स्नान्ति सवाससः। बौद्धैरपि सहैतेषां व्यवहारो न कश्चन ॥ १० ॥ वेदधर्मानुवर्ती च प्रायेण सकलो जनः। वेदबाह्यस्तु यः कश्चित् आगमो वञ्चनैव सा ॥९१ ॥
(वेद बाह्या अपि वैदिकाभासा एव] ईदृशश्चार्य अनन्यसामान्यविभवो महाभागो वेदनामा ग्रन्थराशिः, यदन्ये बाह्यागमवादिन एवमेव स्पर्धन्ते। ते हि स्वागमप्रामाण्यमभिवदन्तः, वेदरीत्याऽभिदधति। वेदे यथातथा प्रवेष्टमी हन्ते॥ . . ___ वैदिकानर्थान् अन्तराऽन्तरा स्वागमेषु निबध्नन्ति। वेदस्पर्श पूतामिवात्मानं मन्यन्ते। तेषामप्यन्तहृदये ज्वलत्येव वेदप्रामाण्यम्। अंत एवं विधाया महाजनप्रसिद्धः आगमान्तरेष्वदर्शनात् न तेषामाप्तप्रणीतत्वम् ॥ __ [महाजनपरिग्रहाद्वेदप्रामाण्येऽपि न्यायशास्त्रस्यावश्यकता]
आह1. महाजनप्रसिद्धयैव वेदप्रामाण्य निश्चयात् ।
किमर्थः कण्ठशोषोऽयं इयानार्येण संश्रितः ? ॥९२॥ वेदप्रामाण्यसिद्धयर्थं हि इदं शास्त्रमारब्धमिति गीयते। वेदप्रामाण्यस्य च महाजन प्रसिद्धयैव' सिद्धत्वात् किं शास्त्रेण ? · अलं क्षुद्रचोथैरीदृशैः !
* चातुर्वर्ण्यति । तथा च वर्णाश्रमधर्मनिष्ठा एव महाजना इति निश्चितम् ॥
अियं कण्ठशोषः--एतावता वेदप्रामाण्यस्थापनार्थ कृतः श्रमः ॥
वृन्दकादि:-ख.
ज्वलतीव-ख,
3 सिद्धयैव-ख.