SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ आह 638 आगमप्रामाण्यनिरूपणम् [न्यायमअरी विरुद्धानां बौद्धाद्यागमानामिति कुतस्तेषामाप्तप्रणीतत्वम् ? मूलान्तरं हि तत्र सुवचं अज्ञानलोभादि --- इत्येवमभिधाय वेदस्पर्धिनो बौद्धादयः निषेद्धव्याः ॥ ___ कोऽयं महाजनो नाम ?] कोऽयं महाजनो नाम ? किमाकारः? किमास्पदः ? किंसंख्यः? किंसमाचारः? इति व्याख्यातुमर्हसि ॥ ८९ ॥ अपि च बौद्धादयो बुद्धादीनातान् स्वागमप्रामाण्यसिद्धये वदन्ति ते महाजनमपि निजम् । तत्सिद्धये 'वन्दकादिकं वदेयुरेव । कस्तत्र प्रतीकारः ? उच्यते-चातुर्वर्ण्य, चातुराश्रम्यं च यदेतदार्यदेशप्रसिद्धं, स महाजन उच्यते । आकारस्तु तस्य कीदृशं पाणिपादम् ? कीदृशं शिरोग्रीवं वा? कियती तस्य संख्या ? इति पुरुषलक्षणादीनि गणयितुं न जानीमः ॥ . चातुर्वर्ण्यचातुराश्रम्यरूपश्चैष महाजनः वेद पथ प्रवृत्तः आगमान्तरवादिमिरप्रत्याख्येय एव। तथा चैते बौद्धादयोऽपिदुरात्मानः वेदप्रामाण्यनियमिता एव चण्डालादिस्पर्श परिहरन्ति । निरस्ते हि जातिवादावलेपे कः चण्डालादिस्पर्श दोषः ? येऽपि अन्ये केचित् अशुचिभक्षणागम्यागमनादिनिर्विकल्पदीक्षाप्रकारमकार्यमनुतिष्ठन्ति, तेऽपि चातुर्वर्ण्यमहाजनभीताः 'तत्कर्म रहसि कुर्वन्ति, न प्रकाशम् । निर्विशङ्के हि तच्छास्त्रप्रत्यये किमिति चौर्यवत् तदानुष्ठानम् ? अत एव न निजो महाजनः *निज मिति । वदन्तीत्यनुकर्षः ॥ विन्दकादि-'वन्दा वृक्षादिनी 'इत्यमरः । स्वार्थ कुत्सायां वा कन् । . वृक्षोपरि यदृच्छया जात: वृक्षः । प्रक्षिप्तवचनादीत्यर्थः । अथवा वन्दका-भिक्षुकी। तादृशं जनं स्वागमप्रामाण्यसिद्धये महाजनं वदेयुरेवेत्यर्थः ॥ 1 आगमान्तरेत्यादि । वैदिकैरुक्तानेव धर्मान् प्रकारान्तरेण तेऽप्यङ्गीकुर्वन्त्येवेत्यर्थः ॥ 1 वृन्दादिकं-ख. प्रथम-ख. क-ख. +तं तं-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy