________________
' आह्निकम् ४] आगमद्वैविध्यम्
635 न साक्षाद्धर्मोपदेशीनि । कल्पसूत्रेष्वपि विक्षिप्तकर्मक्रमनियमसंग्रहमात्रम् , नापूर्वोपदेशः। मीमांसा वेदवाक्यविचारात्मिका । वेदप्रामाण्यनिश्चयहेतुश्च न्यायविस्तर इत्यामुख एवोक्तम् (पु. 7-10)। तदिमानि चतुर्दशविद्यास्थानानि प्रमाणम् । . कानिचित् साक्षादुपदेशीनि, कानिचित् तदुपयोगीनीति सिद्धम् ॥
[आगमद्वैविध्यम्] यानि पुनरागमान्तराणि परिदृश्यन्ते, तान्यपि द्विविधानिकानिचित् सर्वात्मना वेदविरोधेनैव प्रवर्तन्ते, बौद्धादिवत्। कानिचित् तदविरोधेनैव कल्पितव्रतान्तरोपदेशीनि, शैवादिवत् ॥
[शैवागमानां प्रामाण्यम् ] तत्र शैवागमानां तावत् प्रामाण्यं ब्रूमहे; तदुपजनितायाः प्रतीतेः सन्देह-बाधकारण-कालुष्यकलापस्यानुपलम्भात् । ईश्वरकर्तत्वस्य तत्रापि स्मृत्यनुमानाभ्यां सिद्धत्वात् । मूलान्तरस्य लोभमोहादेः कल्पयितुमशक्यत्वात् । न हि तत्र इदंप्रथमता स्मयते । वेदवदेकदेशसंवादाश्च भूम्ना दृश्यन्त इति कुतो मूलान्तरकल्पनावकाशः ।
शैवागमा अपि वैदिकधर्मप्रतिपादका एव] न च वेदप्रतिपक्षतया तेषामवस्थानम् ; वेदप्रसिद्धचातुर्वर्ण्यादिध्यवहारापरित्यागात् ॥
मन्वादिचोदनान्याय: स यद्यपि न विद्यते । शेवागमे तथाऽप्यस्य 'न न युक्ताऽप्रमाणता ॥ ७९ ॥
* पूर्व (पु. 630) मन्वादिस्मृतीनामागमत्वेन निर्देशात् आगमान्तराणीति ॥ + इदं प्रथमतेति। अनादिपरंपराप्राप्ताः ते भागमा इत्यर्थः ।।
ननु मन्वाद्यक्तशौचाचमनादीनां वैदिकधर्मैः संवलनदर्शनात् , आगमोक्तधर्मेषु त्रयीबाह्यानामप्यधिकारात् अप्रामाण्यमेव शैवपाञ्चरात्राद्यागमानां इति शंकायां (तं. वा. १-३-४) आह–मन्वादीति ॥
ननु-ख.