________________
634
आगमप्रामाण्यनिरूपणम्
प्रत्यक्षस्य योगिप्रत्यक्षस्य च प्रामाण्ये कश्विद्विशेषः । हार्यकृतस्तु भविष्यति । किं तेन ?
उच्यते - भवतु विकल्पः । को दोषः ? वेदमूलत्ववादिभिरपि कश्चिद्विकल्पो व्याख्यात एव । विषयविभागेन वा विकल्पो व्याख्यास्यते । न च श्रुतिस्मृतिविरोधोदाहरणं किञ्चिदस्तीति स्वाध्यायाभियुक्ताः । तस्मादाप्तप्रत्यक्षमूलत्वेन वेदानामिव
धर्मशास्त्राणामपि प्रामाण्यम् ॥
[ इतिहासपुराणानामपि साक्षादेव प्रामाण्योपपादनम् ] एतेन इतिहासपुराणप्रामाण्यमपि निर्णीतं वेदितव्यम् । इतिहासपुराणं हि पञ्चमं' वेदमाहुः । उक्तं च- (म. भा. आ. १ - २६५) 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदः मामयं प्रतरिष्यति' इति ॥
[सर्वस्मृतीनां वेदमूलकत्वेनैव प्रामाण्यमिति पक्षः ]
अथवा किमस्माकं दुरभिनिवेशेन ? वेदमूलत्वात् स्मृतीनां, स्मृतिवत् पुराणानामपि भवतु 'प्रामाण्यम् । प्रामाण्ये तावदविवादः । सदाचारस्याप्यनुपनिबद्धस्य वेदमूलत्वादेव भवतु प्रामाण्यम् ' ॥
不
[ विद्यास्थानेषु षण्णां प्राधान्यं इतरेषामङ्गत्वम् |
सर्वथा तावत् वेदाश्चत्वारः, पुराणं, स्मृतिरिति षडिमानि विद्यास्थानानि साक्षात्पुरुषार्थ साधनोप देशीनि पूर्वोक्तरीत्या प्रमाणम्' । व्याकरणादीनि तु षडङ्गानि अङ्गत्वेनैव तदुपयोगीनि
योगिनां तु आहार्य – तपःप्रभाव संपाद्यम् ॥
[ न्यायमञ्जरी
* नैसर्गिका
•
नैसर्गिकेति । विशेष इत्यनुवर्तते । ईश्वरप्रत्यक्ष नैसर्गिकम्,
+ व्याख्यात एवेति । तन्त्रवार्तिके 'वैष्टुतं वै वासः' इति शाख्याय
निब्राह्मणोदाहरणपूर्वकं ' ततश्च श्रुतिमूलत्वात् बाध्योदाहरणं न तत् । विकल्प
एव हि न्याय्यस्तुल्यकक्ष्यप्रमाणतः' (तं. वा. १-२-४) इत्युक्तम् ॥
1 हि पञ्चमं ख 2
1 अनुपनिबद्धस्य - स्मृतिरूपनिबन्धाविषयस्य - तद्विषयक स्मृति रहितस्य ॥
4 देशीनि - ख.
प्रामाण्यम् - ख.
3
'साक्षात्कृत पुरुषार्थ-क.