________________
633
आगमप्रामाण्यनिरूरणम
न्यायमञ्जरी
वाध्यते ? व्यक्ताव्यक्तो हि वेद एवासो। अत एव न *मन्त्रार्थवादादिमूलकत्वकलानं युक्तम्, स्मर्यमागम्य वेदस्यानादित्वात् ॥
_ [मन्वादिस्मृति बाह्यस्मृत्योर्केलक्षण्यम् ] ननु ! एवं वेदमूलत्वेन प्रामाण्ये वर्ण्यमाने याह्यस्मृतीनामपि प्रामाण्यं वदन्तः 'प्रवादुकाः' कथं प्रतिवक्तव्याः? उच्यते--प्रत्युक्ता पव ते तपस्विनः। उक्तं हि भगवता जैमिनिना-'अपि वा कर्तृसामान्यात् प्रमाण मनुमानं स्यात् ' (जै. सू. १-३-२) इति ॥
कर्तृसामान्यादिति कोऽर्थः ? एकाधिकागवगमादिति । य एव वेदार्थानुष्ठानेऽधिकृताः कर्तारः, त एव स्मृत्यर्थानुष्ठाने। आच मना दस्मार्तपदार्थसंबलिततयैव वेदिस्तरणादिवैदिकपदार्थप्रयोगदर्शनात । न त्वमेकाधिकागवगमो बाह्यस्मृतिषु विद्यते । तस्त्रात् मन्वादिस्वृतय पर प्रमागं, न बाह्यस्मृतयः ।।
[सिद्धान्ते तु मन्वादिस्मृतीनां प्रत्यक्षमूलकत्वादेव प्रामाण्यम्]
ननु ! मन्वादिस्मृतयोऽपि वेद मूलत्वात् प्रमाण, नान्यत इति -~~-अत्रोच्यते-तदेतद्वादमूलतया प्रामाण्यं योगिप्रत्यक्ष धर्मग्राहकममृधमाणाः किलाचक्षते भवन्तः। एतच्च न युक्तम् - या हि भगवानीश्वरः सर्वम्य कर्ता, सर्वम्येशिता, सर्वदी, सर्वानुकम्पीच वंदानां प्रणेता समर्थितः, तथा योगिपत्यमपि धर्मग्रहणे निपुणमस्मदादिप्रत्यक्षविलक्षण प्रत्यक्षलक्षणे (पु-268) . समर्थितमेव । तस्मात् तन्मूला एव मन्वादिदेशनाः भवन्तु ॥ .
*मन्त्रार्थवादादि इत्यादेः, मन्वादिस्मृतीनामिति शेषः ।। +अनुमान-अनुमिता श्रुतिः। संब स्मृः मूलं प्रमागमित्यर्थः ॥
न त्यमित्यादि । तथा च आचमनादिस्मातकर्मणां, वेदिस्तरणादिश्रौनकर्मणां च परस्पर संबलनदर्शनात् वैदिकमन्वादिविरचितत्वमेव बाह्यस्मृत्यपेक्षया वलक्षण्यं पर्याप्तमित्यर्थः ।।
वेदमूलत्यादिति। तथा च तेषां धर्मे प्रामाण्यवर्णनमुपहास्य इत्याशयः॥
प्रावादुका:-ख.
नन्मेव-क.