________________
'आह्निकम् ४) आगमप्रामाण्ये पक्षभेदाः
. 631 [मन्वाद्यागमानां वेदमूलकत्वे पक्षभेदाः] तत्र केचित् परिदृश्यमानमन्त्रार्थवादबलोनीतविधिमूलत्वं मन्यन्ते । अन्ये विप्रकीर्णशाखामूलत्वम् । अपरे पुनः उत्सन्नशाखामूलत्वमिति ॥
__ अनेन च विशेषविवरणेन न नः प्रयोजनम्। सर्वथा यथोपपत्ति वेद एव तत्र मूलं प्रकल्प्यताम् , न मूलान्तरम् , अप्रमाणकत्वात्। वेदमूलत्वपक्षेऽपि चेयमखिलजगद्विदिता * स्मृतिसमाख्याऽनुगृहीता भविष्यति । प्रत्यक्षमूलत्वे हि वेदवदत्रापि कः स्मृतिशब्दार्थः ?
. [श्रुतिस्मृतिविरोधे श्रुतेः प्राबल्यम् ] किञ्च वेदमूलत्वे सति स्मृतेः श्रुतिविरोधे सति तदतुल्यकक्ष्यत्वात् बाध्यत्वं. सुवचं भवति । क्लप्त मेकत्र मूलं , इतरत्र कल्प्यम् । यावदेव भवान् स्मृतेः श्रुतिं कल्पयितुं व्यवस्यति, तावदेतद्विरोधिनी प्रत्यक्षश्रुता श्रुतिरवतरति हृदयपथमिति कथं तदा मूलकल्पनायै स्मृतिः प्रभवेत् । तदाह (तं. वा. ३-३-३)
'सोऽयमाभाणको लोके यदश्वेन हृतं 'पुरा'। तत्पश्चात् गर्दभः प्राप्तुं केनोपायेन शक्नुयात् ? ' इति ॥
[श्रुतिस्मृत्योः साम्यमिति पक्षान्तरम् ] __ अपर आह-विकल्प एवात्र युक्तः। किल द्विविधो वेदःश्रूयमाणः, अनुमीयमानश्च । श्रूयमाणश्च श्रुतिरित्युच्यते। अनुमीयमानश्च स्मृतिरिति । द्वावपि चेतावनादी इति किं केन - - *स्मृतिसमाख्येति । तथा च वेदाः अनुभवमूलाः, स्मृतयस्तु वेदमूलाः इति भावः ॥
+एकत्र-वेदे॥ 1 इतरत्र-मन्वादिस्मृतौ ।।
1पुर:-क.