________________
630
आगमप्रामाण्यनिरूपणम्
[न्यायमञ्जरी
[भागमद्वैविध्यम् ] कानि पुनरागमान्तराणि चेतसि विधायैवं वत्सः पृच्छति ? पुराणेतिहासधर्मशास्त्राणि वा? शैवपाशुपतपञ्चरात्रबाद्धार्हतप्रभृतीनि वा?
_ मन्वाद्यागमानां वेदमूलत्वात् प्रामाण्यम् ] तत्र शैवादीनि तावन्निरूपयिष्यामः। मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत् तदर्थानुप्रविष्टविशिष्टकर्मोपदेशीनि प्रमाणमेव । कस्तेषु विचारः ? तेषां तु प्रमाणत्वं वेदमूलत्वनैव केचिदाचक्षते॥
तथा हि--न तावन्मन्वादिदेशनाः भ्रान्तिमूलाः संभाव्यन्ते, बाधकाभावात्। अद्ययावदपरिम्लानादरैः वेदविद्भिः तदर्थानुष्ठानात् ॥
नाप्यनुभवमूलाः*, प्रत्यक्षस्य त्रिकालानवच्छिन्नकार्यरूपधर्मपरिच्छेददशासामर्थ्यासंभवात् ॥ .
न च पुरुषान्तरोपदेशमूलाः, पुरुषान्तरस्यापि तदवगमे प्रमाणाभावात् । भावे वा मनुना किमपराद्धम् ? असति हि मूलप्रमाणे पुरुषवचनपरंपरायामेव कल्प्यमानायां अन्धपरंपरास्मरणतुल्यत्वं दुर्निवारम् ॥
न च विप्रलम्भका एव भवन्तो मन्वादयः एवमुपदिशेयुरिति युक्ता कल्पना ; बाधकाभावात् , साधुजनपरिग्रहाच्चत्युक्तम्॥
तस्मात् पारिशेष्यात् वेदाख्यकारणमूला एव भवितुमर्हन्ति मन्वादिदेशनाः, तद्धयनुगुणं समर्थ च कारणमिति। तदाह भट्टः (तं. वा. १-३-२)
भ्रान्तेरनुभवाद्वाऽपि पुंवाक्याद्विप्रलंभकात्। दृष्टानुगुण्यसामर्थ्यात् चोदनैव लघीयसी' इति ॥
* अनुभवमूलाः इत्यादौ संभाव्यन्ते' इत्यस्यानुवृत्तिः॥
| भ्रान्तरित्यादि । स्मृतीनां दर्शनानुगुण्यमेव यतः सामर्थ्य, तत: स्मृतिमूले किञ्चित्कल्पनीये साधकाभावात् भ्रान्तेः, प्रत्यक्षस्य च धर्माग्राहकत्वात् पौरुषेयवाक्यस्याविश्वसनीयत्वात, विप्रलंभमूलकत्वेऽपि प्रमाणाभावात् एतेषां चतुर्णामपि अष्टकादिस्मृतिमूलत्वासंभवे चोदनामूलकत्वमेव वक्तव्यमित्यर्थः ॥