________________
आह्निकम् ४]
अथर्ववेदस्येतरवेदेभ्यः श्रेष्ठयम्
627
वेदाध्ययनेऽधिकारः। तदुक्तम् 'भृग्वगिरोविदा संस्कृतोऽन्यान् वेदानधीयीत, नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत '(गो. बा. १-२९) इति । त्रय्येकशरणैरपि तदवश्याश्रयणीयं अथर्ववेदविहितं स्वकर्मभ्रंशे प्रायश्चित्तमाचरद्भिरित्यथर्ववेद एव ज्यायान् ॥
अिथर्वणो वेदत्वे स्मृतयो न प्रतिकूलाः) यत्त मानवं वाक्यमुदाहृतं पत्रिंशदाब्दिकं, तत त्रिवेदाध्ययनविषयं वैकल्पिकम् । 'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्' (मनुस्मृ. ३-२) इति एकस्मिन् वेदे द्वादशवर्षाणि व्रतम् , द्वयोः चतुर्विंशतिः, त्रयाणां षट्त्रिंशदिति । यस्तु चतुरो वेदानधीते, तस्य 'अष्टचत्वारिंशद्वर्षे वेदब्रह्मचर्यमुपासीत' इति स्मृत्यन्तरमस्ति, न च तदा दृतम्। तत्र त्रिवेदाध्यायिनामेव प्रतिवर्षे षोडशवर्षाणि व्रतं चरेदिति व्याख्यानमसङ्गतम्, उपक्रमविरोधात् , अनुपयोगाच्च। तेन वेदान्तराध्ययनकृत एवायं विकल्पविधिः, . न द्वादशषोडशवर्षापेक्ष इत्यनादरोऽप्यस्यां स्मृतौ 'कृष्णकेशोऽग्नीनादधीत' इति श्रुतिविरोधकृतः, नाथर्ववेदाध्ययन निषेधगर्भ इति ॥
त्रैवेदिकबह्मचर्यस्मृतिरपि चेयं अथर्ववेदाध्ययनपर्युदासमेव विषयीकरोति, न च वेदान्तराध्ययननिषेधमिति अत्रापि न विशेषहेतुरस्ति । त्रिषु वेदेश्विदं व्रतम् , न पुनरेष्वेव त्रिष्विति नियामकं वचनमस्ति॥
[अथर्वविदः श्राद्धभोजनेऽधिकारः अस्त्येव] यदपि श्राद्धप्रकरणे ‘यत्नेन भोजयेत्' इति 'त्रिवेदी पारगपरिकीर्तन (पु. 615) तत् वेदपारगम्' इति, 'शाखान्तगम्' इति, समाप्तिगम्' इति विशेषणपदपर्यालोचनया ऋग्वेदायेकदेशाध्यायिनामनधिकारमेव श्राद्धे सूचयति । अथर्वणस्तु अथर्वशिरो*ऽध्ययनमात्रलब्धपतिपावनभावस्यैकदेशपाठिनोऽपि तत्राधिकार उपपद्यते ।
* अध्ययनमात्रेति। अध्ययनैकदेशेत्यर्थः ॥
1 त्रिवेद-ख.
10*