SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 626 अथर्ववेदस्य वेदत्वसमर्थनम न्यायमञ्जरी प्रयुज्यत इति चेत् , तदितरत्रापि समान मित्युक्तम् । चतुर्वेदाध्यायी भरद्वाज इति च *प्रसिद्धमंव। 'सर्वथा' तु सोपपद एवायुर्वेदादिषु घेदशब्द इति न तत्तुल्यकक्ष्यताऽधिक्षेपक्षेत्रतामथर्ववेदो नेतव्यः॥ ब्रह्मयज्ञे अथर्ववेदविनियोगः सर्वसम्मत:] ब्रह्मयज्ञविधिश्च श्रौतः चतुर्वप्यविशिष्ट इत्युक्तम् । 'स्मार्तोऽपि तथाविध एवास्ति। यथाऽऽह याज्ञवल्क्यः (या.स्म १-४४)-. 'मेदसा तर्पयेद्देवान् अथर्वाङ्गिरसः पठन् । पितृ॑श्च मधुसर्पिल् अन्वहं शक्तितो द्विजः' इति। सांप्रदायिकमध्यापनाध्ययनादि सर्वमभिन्नमेवेत्यलं प्रसङ्गेन ॥ तेन प्रमाणतायां, वेदस्वाध्यायशब्दवाच्यत्वे, पुरुषार्थसाधनविधावपि चत्वार: समा वेदाः ।। [अथर्ववेदस्यैवेतरवेदापेक्षया.श्रेष्ट्यम् ] यदि पुनः औित्तराधर्येण विना न परितुष्यते, तत् अथर्ववेद एव प्रथमः, ततः परमस्य मंत्रस्य ब्रह्मणः प्रणवस्याभिव्यक्तेः। तथा च श्रुतिः –'ब्रह्म ह वा इदमग्र आसीत्' (गो. ब्रा. १-१) इत्युपक्रम्य, 'आथर्वणं वेदमभ्यश्राम्यदभ्यतपत् समतपत्तस्माच्छान्तात् 'तप्तात् सन्तप्तात्' ओमिति मन एवोर्ध्वमक्षरमुदक्रामत्' (गो. ब्रा. १-५) इत्यादि । तथा महाव्याहृतीनां शाखान्तरप्रसिद्धानां, अप्रसिद्धानां च बृहदित्यादीनां तत एवोत्थानम् ॥ [अथर्ववेदाध्ययनस्य प्रत्यकोपनयनाधिकारिकत्वम् ] अथर्ववेदकृतोपनयनसंस्कारस्य वेदान्तराध्ययनमविरुद्धम् । अन्यवेदोपनीयमानस्य तु नाथर्वणोपनयनसंस्कारमप्रापितस्याथर्व * प्रसिद्धमेवेति। तैत्तरीयकाठकान्ते अयमर्थः स्पष्टः।। + औत्तराधर्येणं-उच्चनीचभावेन ॥ * अन्यवेदेति। एतेनेतरवेदापेक्षयाथवेवेदस्यैव श्रेष्ठयमुक्तं भवतीत्यर्थः ।। 1 सर्वदा-क. स्माते-क. 3 दियजनादि-ख. सन्तप्तात्-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy