________________
.आह्निकम् ] अथर्वणो वेदत्वेऽवप्रतिपत्ति:
625 हि चत्वार इमे वेद प्रन्याः । मन्त्रास्तु 'वस्तुनो' गद्यपद्यभेदात् द्विविधा एव। गद्ययन्यो यजुरुच्यते, पद्ययन्धः ऋगिति । गीति निबन्धनं तु भेदान्तरं सामेति । अत एव जैमिनिना मन्त्रविभागं प्रस्तुत्य-'तेपामृग्यत्रार्थवशेन पाव्यवस्था' (जै. सू. २-१-१५), 'गीनिषु सामाख्या' (३६), 'शेपे यजुश्शब्दः (३७), इत्यमेव तेपां त्रैविध्यनुपपादितम् । तपामेय चायमुच्चस्त्वादि धर्मः, न वेदशब्दवाच्यानां मन्त्रव्राह्मण समुदायात्मनां ग्रन्थानाम् ! अथर्ववेदेऽ. पीयं त्रिविधैव मन्त्रजातिरिति तत्रातीदं धर्मजातमुपदिष्ट भवति ।
'मन्त्रविभागकृत एवायं त्रयीपदेश इति । 'अतश्च' 'सैपात्रयी विद्या तपति' इत्याद्यपि न विरोत्स्यते । एवं ऋग्यजुस्सामसमुदायात्मकमन्त्रोपबन्धात् त्रय पन्तर्गतश्चार्यवेदः। पृथग्व्यवस्थितग्रन्थ. सन्दर्भ स्वभावत्वाच्च भिन्नः स इति सिद्धम् ॥
. [अथर्वणः ऋग्वेदत्वपक्षः] ___ अन्ये पुनः-ऋक्प्रचुरत्वात् , प्रविरलयजुर्वाश्यत्वात् , अगीयमानसाममन्त्रतावशाच्च ऋग्वेदमेवाथर्ववेदमाचक्षते। अग्मपि पक्षोऽस्तु, *न कश्चिद्विरोधः॥
[अथर्वणः वेदस्वेन प्य म्हारे विप्रतिपत्त्यभाव ] यत्युनभिधीयते-वेद शब्दः त्रयाणामेव वाचकः, न चतुर्थस्येति-सोऽयमत्युत्कटो द्वेपः । वृद्धव्यवहारो ह्यत्र प्रमाणम् । 'वेदोऽयम्', 'ब्राह्मणोऽयम् ' इति तत्र तत्र वेदशदे उच्चारिते चत्तारोऽपि प्रतीयन्ते। वे मयाऽधीतः' इति वान्तं पृच्छन्ति व्यवहर्तारः ‘कनमस्त्वाऽधीतो वेदः' इति । स आह 'अथर्ववेदः' इति । न तमेवमाक्षिपन्ति 'नासो' वेदः, यस्त्वया पठतः' इति । सोपपदोऽथर्ववेदे वेदशब्द इति चेत्, वेदान्तरेयपि तुल्यमेतत् 'ऋग्वेदः, यजुर्वेदः, सामवेदः' इति। निरुपपदोऽपि तेपु वेदशन्दः,
* न कश्चिद्विरोधः, प्रामाण्ये वेदरवे चेति शेषः ॥
1 ते-ख. दिधैव-ख. रादि-ख. च-ख. ध भाव-ख. 'नानासौ-क.
NYAYAMAŅJARI