________________
मासिकम् । भवर्षण: वेद वे इत्यादिसम्मतिः
617 किचात:? किमियताऽथर्वणश्चतुर्थो न भवति घेदः ?
* चतुर्थशब्दोपादानात् इतिहासादितुल्योऽसौ, न वेदसमान कक्ष्य इति चेत् ; केयं कल्पना? चतुर्थशब्दोपादानादप्राधान्ये 'त्रयो वेदा असृज्यन्त' (शत. बा. १-४-११) इत्यादौ त्रित्वसंख्योपादानात तेऽपि न प्रधानतामधिगच्छेयुः। इतिहासादिभिर्वा सह परिगणनं भनाधान्यकारणं यदुच्यते, 1 तदपि सर्ववेदसाधारणमिति यत्किञ्चिदेतत् ।।
[अथर्ववेदस्य घेदस्वे श्रुतिसम्मतिः • तथा शताध्ययने ऽपि 'चो वैध्रह्मणः प्राणाः' इस्यभ्युपक्रम्य 'आथर्वणो वै ब्रह्मणः समानः इति पठ्यते ॥
तथा “येऽस्य प्राञ्चो रश्मयः ता एवास्य प्राच्यो मधुनान्यः, ऋच एव पुष्पम' (छा. उ. ३-१-२) इत्युपक्रम्य पठित-अथ येऽस्योपञ्चो 'रश्मयः ता एवास्योदीच्यः मधुनाड्यः अथर्वाङ्गिरस एव मधुकृतः' (छा. उ. ३-४-१ इति ॥
तथा तैत्तरीये 'तस्माद्वा एतस्मात् प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः' (तै उ. २) इति प्रस्तुत्य 'तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आन्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा' (ते. उ. २) इति पठ्यते ॥
** चतुर्थशब्दोपादानादिति। ऋग्वेदादो संख्याया अनिर्देशाद, इनिहासपुराणयोः पञ्चमपदोपादानाञ्चेति शेषः ।
- सिंख्यानिर्देशमानं तस्य जघन्यतां न गमयेदित्याशयेन समाधत्ते --- केयमिति ॥
तिदपीति । इतिहासपुराणो द्वौ यथा समुचितो, न तथा ताभ्यां अथर्ववेदः, किन्तु स पृथगेव परिगणितः । ननु त्रयीनिर्देशानन्तरं चतुर्थत्वेनास्य पृथनिर्देशस्तर्हि कुत इति चेत्, त्रस्यपेक्षया किश्चिद्वैलक्षण्यात्तथा निर्देशः। बैलक्षण्यं च वक्ष्यति (पु. 625) ॥
येऽस्योदलो