________________
616 अथर्ववेदस्य वेदस्वसमर्थनम्
न्यायमचरी घिगतौ जैमिनिना निरदेशि पन्थाः, यो वा अक्षपादेन, कणादेन च प्रकटितः-तद्वचनादानायप्रामाण्यम्' (वै. स. १०-२.९) इति, 'मन्त्रायुर्वेदप्रामाण्यवच तत्प्रामाण्यमाप्तप्रामाण्यात्' (म्या.स्. २-१-६९) इति, स चतुर्वपि वेदेषु तुल्यः। तत्र *विशेषतुषोऽपि न कश्चिदतिप्रयत्नेनान्धिष्यमाणः प्राप्यते । म हि मीमांसकपक्षे एवं वक्तुं शक्यते-- अय्येवानादिमती, नाथर्वश्रुतिः ; तस्यां कर्तृस्मरणसंभवादिति ॥
नापि नैयायिकपक्षे एवं वक्तुं शक्यम-आप्तप्रणीताः प्रयो वेदाः, चतुर्थस्नु नासप्रणीत इति । तेन प्रामाण्याधिगमोपायाविशेषात समानयोगक्षेमतया चत्वारोऽपि वेदाः प्रमाणम ॥ __व्यवहारो हि सर्वेषां सारेतरविचारचतुरचेतसां चतुर्भिरपि धेदैः, चतुर्णां वर्णानामाश्रमाणां, चतसृषु विश्नु, चतुब्धिमेखलायामवनौ प्रसिद्ध इति कोऽयमत्रान्यथात्वभ्रमः ?
श्रुतिस्मृतिमूलश्चार्यावर्तनिवासिनां भवति घ्यवहारः। ते व श्रुतिस्मृती चतुरोऽपि वेदान् समानकक्ष्यानभिवदतः। प्रायजुस्साम वेदेष्वपि अथर्ववेदाशंसीनि भूयांसि वचांसि भवन्ति । तद्यथा शतपथे 'अथ तृतीयेऽहन्' (शत. प्रा. १३-४-३-७) इत्युपक्रम्य' अश्वमेधे पारिप्लवाख्याने 'सोऽयमाथर्वणो घेदः' इति श्रूयते । छाम्दोग्योपनिषदि च 'ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थः' (ला. उ. ७.1.1) इति पठ्यते ॥
[अथर्ववेदस्य इतिहासपुराणतुल्यस्वनिरासः] ननु ! 'इतिहासपुराणः पञ्चमः' (छा. उ. ७-१-४) इति तय पठ्यत एव ॥
* विशेषतुषोऽपि-विशेषलेशोऽपि ।
+सारेतरेति । सारासारेत्यर्थः । चतुर्मिरपि वेदैः व्यवहारः प्रसिर इत्यन्धयः ।।
अत्र--अथर्ववेदें। सोऽयमिति। मनुवादोऽयम्। एषमन्यत्रापि पयते ॥
दस्ति-ख.
क्रमस्य-खा.