________________
614
अथर्ववेदस्य वेदस्वाक्षेप:
শিক্ষা
तेनाप्तनिर्मिततयैव निरत्ययार्थ
संप्रत्ययोपजननाय जनस्य वेदे । शास्त्रं सुविस्तरमपास्तकुतर्क मूलमोहप्रपञ्चमकरोत् मुनिरक्षपादः ॥ ७३ ॥
[भथर्ववेदस्य चतुर्थवेदत्वाक्षेपः]] अत्र कश्चिदाह-युक्तमितरेतरव्य तिषक्तार्थोपदेशित्वेनैककत . कत्वानुमानद्वारकं त्रिवेद्याः प्रामाण्यम् । अथर्ववेदस्य तु। *अय्यानातधर्मोपयोगानुपलब्धेः त्रयीबाह्यत्वेन 'न तत्समान'. योगक्षेमत्वम् ॥
भिधर्ववेदस्य स्वतन्त्रप्रमाणत्वासंभवः . अनपेक्षत्वलक्षणप्रामाण्यपक्षऽपि (पु. 435) विक्षिप्तशास्त्रान्त रोपदिष्टविशिष्टज्योतिगोमाद्यनेककर्मानप्रविष्ट हौवाध्वर्यवादिव्यापार. व्यतिषङ्गदर्शनात् तदर्था त्रय्येव यथा प्रमाणभावभागिनी भवितु. मईति, न तथा । पृथग्व्यवहारा आर्यणश्रुतिः ॥
[वेदानां त्रित्वमेव श्रुतिसम्मतम् | तथा च लोके चतन इमा विद्याः प्राणिनामनुग्रहाय प्रवृत्ताः-- आन्धीक्षकी, त्रयी, वार्ता, दण्डनीतिरिति प्रसिद्धिः। श्रुतिस्मृती अपि तदनुगुणार्थ एव दृश्येते। श्रुतिस्तावत्-.'ऋग्भिः प्रातर्दिवि देव ईयत्ते। यजुर्वेदेन तिष्ठति मध्येऽह्नः। सामवेदेनास्तमेति । वैदेरशून्यस्त्रिभिरेति सूर्यः (ते. ब्रा.. ३-१२-९) इति। तथा 'प्रजापतिरकामयत बहुस्यां प्रजायेयेति स तपोऽतप्यत। स तपस्तता। इमान् लोकानसृजत पृथिवीमन्तरिक्ष दिवमिति। तान् लोकानभ्यतपत् तेभ्यस्त्रीणि ज्योतीष्यजायन्त। अग्निरेव पृथिव्या अजायत बायुरन्तरिक्षात् दिव आदित्य इति। तानि ज्योतीष्यभ्यतपत् ।
*अय्याम्नाति । शान्तिकपीष्टिकाभिचारादिप्रधानः खलु अथर्ववेदः ॥ पृथग्व्यवहारा - इतरनिरपेक्षेति यावत् ।।
1 तश्समान-ख.