________________
812 मीमांसकोकवेदप्रामाण्यप्रक्रिया
न्यायमचरी कर्मावबोधोऽभ्युपगन्तव्यः। शास्त्रं च *वेदा एवेति सिर तस्प्रामाण्यम् ॥
[लोकप्रसिद्धपा धर्माधर्मस्वरूपावगमः न संभवेत् ननु ! लोकप्रसिद्धित एव धर्माधर्मसाधनानि कर्माणि शास्यन्ते ; किं शास्त्रेण ? उपकारापकारौ हि धर्माधर्मयोर्लक्षणमिति प्रसिद्ध मेवैतत् । तथाऽऽह व्यास:
'इदं पुण्यमिदं पापं इत्येतस्मिन् पदइये।
भाचण्डालं मनुष्याणां अल्पं शालप्रयोजनम् ॥' इति-नैतक्तम-लोकप्रसिद्धनिर्मुलायाः प्रमाणत्वानुपपत्तेः । लोकप्रसिद्धिर्नाम लौकिकानामविच्छिन्ना स्मृतिः। स्मृतिश्च प्रमबन्ती प्रमाणान्तरमूला भवति, न स्वतन्त्रेत्यवश्यमस्या मूलमन्वे. षणीयम्। तब प्रत्यक्षादि नोपपद्यते इति नूनं शास्लमूलैव लोकप्रसिद्धिः। विरुद्धानेकप्रकारवाच लोकप्रसिद्धः न तस्या स्वतन्त्रायां समाश्वसिति लोकः ॥
न'चोपकारापकारक'मानलक्षणावेव धर्माधर्मों वक्तुं युज्यते ; अपयशीधुपानादी तदभावात् । गुरुवारगमनादौ च विपर्ययादि. त्वपश्यं शासशरणावेव तावेषितम्यौ ॥
वैदिकधर्माधर्मनिर्णयः न लोकतो भवितुं शक्या , अपि च इदमिष्टिमन्त्रादिकं एवंफलम् , अयमस्मिन् मधिकृत इति; इयमितिकर्तव्यता, एष देशः, एष कालः, इमे ऋत्विजः
* वेदा एवेति। वेदाध्यास्त्र परं नास्ति' (म. भा. मनु.) इति प्रसिद्धमेव ॥
शीधु:-'मैरेयमासवः शीधुः' इत्यमरः ।। #विपर्ययादिति। उपकारापकारयोः पुरुषबुध्यैव निर्णये अपकारेऽपि उपकारस्वबुद्धिः स्यात् कस्यचित् । इन्द्रेण दूषिता हि महल्या 'कृतार्थाऽस्मि' (रा. बा. ४८-२०) इति वदति। शाखादेवोपकारापकारनिर्णये भस्म. विरसिद्धिः॥
1 चोपकारक-स.
देश-ख.