________________
भाविकम् ४१ मीमांसकोक्तवेदप्रामाण्यप्रकिया
611 - परलोकवादिनां तु मते यदेतत् सुखि दुःस्यादिमेवेन जगतो वैचित्र्यं दृश्यते, तदवश्यं कर्मवैचित्र्यनिबन्धनमेव । कर्मामि खाननुष्ठितानि * नात्मानं लभन्ते। अलब्धात्मनां च नभाकुसुमनिभानां कुतो विचित्रसुखदुःखादिफलसाधनत्यम् ! तस्मात् अनुष्ठानमेषामेषितव्यम् । अनुष्ठानं च नाविदितस्वरूपाणां कर्मणामुपपन्नम् । अजानन् पुरुषः तपस्वी किमनुतिष्ठत् ? सदवश्य जात्याऽनुष्ठेयानि कर्माणि ॥
तदिदानीं तेषां परिक्षाने कोऽभ्युपायः ! ___न प्रत्यक्ष भस्मवादीनां स्वर्गायदृष्टपुरुषार्थसाधनानि कर्माणि दर्शयितुं प्रभवति ॥
नाप्यनुमानम् ; अन्वयव्यतिरेकाभ्यां तृतिमोजमयोरिष स्वर्गयागयोः साध्यसाधनसम्बन्धानवधारणात् ॥
नाप्यर्थापत्तिः; जगद्वैचित्र्यान्यथाऽनुपपस्या तु विचित्रं +कारणमात्रमनुमीयते। न च तावताऽनुष्ठानसिद्धिः। उक्त व (श्लो. वा. १-४-१०५)
'अधर्मे धर्मरूपे वाऽप्यविभक्त फलं प्रति । किमप्यस्तीति विज्ञानं नराणां कोपयुज्यते?' इति ॥ उपमानं त्वत्र शङ्कयमानमपि न शोभते ॥
नापि परस्परमुपदिशम्तो लौकिकाः कर्माणि परलोकफलानि जानीयुरिति वक्तं युक्तम् ; अज्ञात्वा उपपादयतां आतत्वायोगात् । शानं तु लौकिकानां दुर्घटम् ; प्रमाणामावादित्युक्तत्वात् । एवमेव हि पुरुषोपदेशपरंपराकल्पनायां अन्धपरंपरान्यायः स्यात् । तस्मादवयं अभ्युपगतपरलोकैः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात्
* नात्मानं लभन्ते--स्वरूपनिष्पत्तिरेवानुष्ठानमन्सरा न भवतीत्यर्थः ॥ कारणमात्रं-कारणसामान्यम् । न तु विशेषसिद्धिरित्यर्थः ॥
कोपयुज्यत इति। फलविशेषकर्मविशेषाणां, मधिकारानषिकारावीन शानमन्तरा प्रवृत्तेरसंभवादिति हेतुः ॥
39*
+
++