________________
610
मीमांसकोक्तवेदप्रामाण्यप्रक्रिया न्यायमचरी इत्यायुर्वेदवाक्यप्रभृतिषु भवति व्याप्तिराप्तोक्ततायाः
पूर्वोक्तेन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः। न प्रत्यक्षागमाभ्यामपहृतविषया नानुमानान्तरेण व्याधूता वेति सैषा भजति गमकतां * पञ्चरूपोपपत्तेः ॥ १६ ॥ अमपेक्षतया न वेदवाचां घटते 'निष्प्रतिमः' प्रमाणभावः । क गिगमयथार्थतानिवृत्तिः पुरुषप्रत्ययमन्तरेण दृष्टा ॥६७ ॥
तत्प्रत्ययात् बहुतरद्रविणव्ययादि
साध्येषु कर्मसु तपस्सु च वैदिकेषु । युक्तं प्रवर्तनमधाधन केन नैव' ..
तत्सिद्धिरित्यलमसम्मत एष मार्गः ॥ ६८ ॥ तस्मादातोक्तस्वादेव वेदाः प्रमाणमिति सिद्धम् ॥
. [मीमांसकमते वेदप्रामाण्यवर्णनप्रकारः] .
अन्ये तु अन्यथा वेदप्रामाण्यं वर्णयन्ति । तस्य हि प्रामाण्ये अभ्युपगतपरलोकः, अनभ्युपगतपरलोको वा परो विप्रतिपद्यते ?
तत्रानभ्युपगतपरलोकं प्रति तावत् आत्मनित्यतादिन्यायपूर्वक परलोकसमर्थनमेव विधेयम् ॥ ज्ञानात् वयमपि सर्वज्ञा जाता इति, भस्माकं परमुखनिरीक्षणं व्यर्थमिति मायुर्वेदादिदष्टान्तकथनं वृथेति चेत् ; . न-अतीतानां ' चरकादीनां इदानीमप्रत्यक्षत्वेऽपि तेषां ज्ञानं शब्दात् भनुमानेन वा भवत्येच । भनुमान हि त्रिकालविषयम् । अत: आलोक्तत्वस्याप्तिस्सुगमैव ॥
* पश्चरूपाणि पूर्ण(पु. 28:3)मुक्तानि ॥
+अबाधनकेन-बाधादर्शनमात्रेण । भयमर्थः पूर्वमेव (पु. 16) 'मार्तो हि मिषजं दृष्ट्वा' इत्यादावुपपादितः ।।
भिसम्मतः--सतामिति शेषः । यद्धा, मसम्मत:-- सत्ताममनः ॥
गावरभाष्यसूचिता, श्लोकवार्तिकपोषितां प्रक्रियाममुवति-- अन्ये विति ॥
पनि प्रतिमा-क.
मात्रकेण-क.