________________
608
आप्तोक्तत्वादेव वदाना प्रामाण्यम्
[न्यायमचरी
[भायुर्वेदादिकर्तृणां तदुपयोग्यर्थदर्शन प्रत्यक्षमेव] ननु अविदुषामुपदेशो नायकल्पत इति विद्वांसः चरकादयः कल्प्यन्ताम्। ते तु *प्रत्यक्षेणैव सर्व विदितवन्त इत्यत्र किं मानम् ? उच्यते--अन्वयव्यतिरेकयोनिरासात् नानुमानस्यैष विषयः। वेदमूलत्वमापे मन्वादिस्मृतिवत् अयुक्तं कल्पयितुम, किर्तृसामान्या संभवादिति वाय ज्यामः (पु. 632)। पुरुषान्तरोपदेशपूर्वकत्वे
केणव किमपराद्धम् ! उपमानमनाशकनीयमेवास्मिन्नथें । अर्थापत्तिस्तुं न प्रमाणान्तरम् । अप्रामाण्यं तु नास्ति, बहुकृत्वः संवाददर्शनात् । अतः परिशेषात् प्रत्यक्षीकृतदेशकालपुरुषदशाभेदानुसारिसमस्तव्यस्त पदार्थसार्थ शक्तिनिश्चयाः चरकादयः इति युक्तं. कल्पयितुम् ॥
आयुर्वेदायुक्तफलेषु व्यभिचाराद्यप्रसक्तिः यद्येवं कथ त सोमराज्यादिवशक्यपु व्यभिचार: ? व्यभिचारे चार्थजरतीयमित्युक्तम् नेय दोषः-कर्म कर्तसाधनवैगुण्यात् एषु व्यभिचारो भविष्यति। वैदिकेषु च कर्मसु मीमांसकस्य समानो 'गुण':॥
कार्यादौ का ते वार्ता? यस्यां न स्यादिष्टौ वृष्टिः ।
वैगुण्यं चेत् कादीनां, अत्राप्येवं शक्यं वक्तुम ॥६॥ __ * प्रत्यक्षेण वेति। तादृशशास्त्रप्रणयनोपयोगिज्ञानं प्रत्यक्षरूपमेवेति कुत इत्यर्थः ।
कर्तसामान्यासंभवादिति। ये वैदिकधर्माधिकारिणः, त एव मन्वादिस्मृत्युक्तार्थाधिकारिण इति उभयविधधर्मकों: साधारणत्वात् मन्वादिस्मृतीनामपि वेदमूलत्वं कल्प्यते। न ह्येवमायुर्वेदादो वक्तुं शक्यं, विषयस्यैव विलक्षणत्वादित्यर्थः।
समानो गुणः ... समानो योगक्षम इति भावः। वस्तुतस्तु शतसहस्रादिपदानि बहुपर्यायान्ये वेति सोमराज्युपयोगवचनमपि न बाधितम् ॥ .
'सामर्थक.
दोषः-ख.