________________
आदिकम् ४] आयुर्वेदस्य प्रामाण्यनिरूपणम्
607 [भनादिपरम्परासिद्धस्वमात्रानामुर्वेदादिमामाण्यनिर्णयः] 'अथोच्येत'-अनादिरेवैषा चिकित्सकस्मृतिः, व्याकरणादिस्मृतिवत् । संक्षेपविस्तरविवशयैश चरकादयः कर्तारः, न तु ते सर्वदर्शिनः। न च स्मृतावन्धपरंपरादोषः, समूलत्वात् । यथा व्याकरणस्मृतेः शिष्टप्रयोगो मूलं, एवमिहान्वयव्यतिरेको। शिष्टविरोधे सति यथा मूलविरोधिनी पाणिन्यादिस्मृतिरप्रमाणम्, तथा चाहुः 'इह न भवत्यनभिधानात्' (वार्तिकम् ) इति। एवं वैद्यस्मृतिरपि अन्वयव्यतिरेकविरुद्धा न प्रमाणमिति --तदेतदयुक्तम्-- अन्वयव्यतिरेकयोर्यथोक्तनयेन परिच्छेदासम्भवेन तन्मूलत्वा'नुपपत्तेः ॥
[काचित्कसंवादात सर्वाशे प्रामाण्यं न निर्णेतु शक्यम् ] यदि ह्यन्वयव्यतिरेकाभ्यां अशेषद्रव्यशक्तीनिश्चित्य चरकादिमिविरचितं शास्त्रमितीदृशमन्वयव्यतिरेकित्वमुच्यते-तदप्ययाकृतम् -- 'अद्यत्वे' यावन्तावन्वयव्यतिरेको वयमुपलब्धुं शक्नुमः, तावद्भयां ताभ्यां एकदेशसंवादात् प्रामाण्य कल्पनात् * तत्र 'प्रवर्तताम्; न तु तो तावन्तौ शिास्त्रस्य मूलं भवितुमर्हतः; सवैरस्मदादिभिस्तादशशास्त्रप्रणयनप्रसङ्गात् ॥
[आयुर्वेदादीनां वेदवत् नानादित्वम्] . अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम् ; चरकादिकर्तृस्मृतेः कालिदासादिस्मृतिवदविगीतत्वात्। न च चिकित्सास्मरणप्रबन्धएवाय'मनादिः ; तथात्वे अन्धपरंपग, कारणानवधारणात्। न च तदुक्तं ' उन्मूलं भवितुमर्हति, व्युदस्तत्वात्। तस्मात् सर्वक्षप्रणीत एवायुर्वेदः॥
* तत्र तावत्येव एकदेशे ॥ + शास्त्रस्येति। कृत्स्नस्येति शेषः॥ सर्वज्ञः-तत्तच्छास्त्रोपयोगियावदर्थसाक्षात्कारवान् ॥
4 अब तु-क.
1 अयोच्यते-ख. परिच्छेद-क. कल्पना-क. प्रवर्तनम्-ख. एव-स.
3 उन्मूलत्वा-क.
तन्मूलं-ख.