________________
आह्निकम् ४] आयुर्वेदवदेव वेदानां प्रामाण्यम्
605 तथा मन्त्राणां प्रयोगे वृश्चिकभुजगदष्टस्य भक्षितविषस्य वा निर्विषत्वं, अपस्मारपिशाचरूपिकागृहीतस्य तदुन्मोचनं, अतिरभसोजिहानेषु दुष्टमेघेषु सस्यरक्षणमित्येवमुपलब्धम् । अतस्तेषां विषभूता'शनिशमन'कुशलानां आप्ता उपदेशार इति तत्रापि तथैव व्याप्तिनिश्चयः ॥
आयुर्वेदादीनां प्रामाण्य माप्तोक्तत्वमूलमेव ननु ! आयुर्धेदादी प्रामाण्यं प्रत्यक्षादिसंवादात् प्रतिपन्नम् , नाप्तप्रामाण्यात। अतः . कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम् ? नैतदेवम्-प्रत्यक्षादिसंवादात् तन्निश्चीयतां नाम प्रामाण्यम् ! * उत्थितं तु तत् आप्तोतत्वात् । प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादात् प्रामाण्यस्य. ज्ञप्तिः। उत्पत्तिस्तु गुणवत्कारककृत्येत्युक्तम् (पु. 442)॥
नद्यादिवाक्यानि च विप्रलम्भकपुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते। तेनाप्तप्रणीतत्वमेव तेषां प्रामाण्यकारणम् , कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात् । निश्चयोपायस्तु प्रत्यक्षं भवतु, न तु तत्कृतमेव प्रामाण्यम् । अतः युक्तमाप्तोक्ततायाः आयुर्वेदादौ व्याप्तिग्रहणम् ॥
. [आयुर्वेदादौ संवादादेव प्रामाण्यमित्याशङ्का) ननु! एवमपि न युक्तम्, आप्तोक्तत्वस्य तत्र परिच्छेत्तमशक्यत्वात् । अन्वयव्यतिरेकमूलमेव आयुर्वेदवाक्यानां प्रामाण्यम्, नाप्तकृतम्। अन्धयव्यतिरेको च यावत्येव दृश्येते, तावत्येवार्थे प्रामाण्यम् -- यथा हरीतक्यादिवाक्याथै। यत्र तु तथोरदर्शनं तत्राप्रामाण्यम्-यथा सोमराज्युपयोगे समाः सहस्रं जीव्यते इति। आप्ते तु कल्प्यमानेऽर्धजरतीयं स्यात् । अर्धे तस्याप्तत्वम् , अर्धे च कथमनाप्नत्वमिति॥
- * उत्थितमिति। भाप्तोक्तत्वज्ञानादेव हि तादृशौषधसेवनादौ प्रवर्तते पुरुषः। फलप्राप्त्या च तदाख्यं भवति । न स्वाप्तोक्तत्वज्ञानमेव संवादाधीनम् ॥
+ सोमराजी -..' अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका' इत्यमरः॥
'शयनिशमन-क.