________________
604 तोक्तत्वादेव वेदानां प्रामाण्यम
न्यायमञ्जरी प्रत्यक्षादिविसंवादः वेदे *परिहरिष्यते । व्याघातपीनरुक्तयादिदोषाश्च वचनान्तरे । ५३॥ विध्यर्थवादमन्त्राणां उपयोगश्च वक्ष्यते । न मात्रामात्रमप्यस्ति वेदे किञ्चिदगार्थकम् ॥ ५ ॥ शब्दब्रह्मविवादिकल्पनाश्च पुरोदिताः। सर्वाः परिहरिष्यन्ते कार्यत्वस्य विरोधिकाः ॥ ५५॥ इत्थं च स्थिते किमन्यदवशिष्टं वेदेष्वाप्तोक्ततानिश्चयस्य ? सोऽयं सकलशास्त्रार्थस्थिती सत्यां पक्षधर्मत्वनिश्चयः हेतोः आप्तोक्तत्वस्य गीयते ॥
यत्तु प्रत्यक्षमनुमानं वा तन्निश्चयानिमित्तमिति विकल्पितम् (पु. 575)--तत्र प्रत्यक्षमास्ताम् ! अनुमानादीनि च यानि रचनात्वादीन्युक्तानि, यानि च पिरदर्शनदिषि वक्ष्यन्ते, तानि सर्वाण्याप्तोक्ततायाः पक्षधर्मतासिद्धयोपयिकानीत्यलं विस्तरेण ॥
वेदे भाप्तोक्तत्वहेतोः ग्याप्तिग्रहणप्रकारः] व्याप्तिः पुनरस्य हेतोः आयुर्वेदादिवाक्येषु निश्चीयते । पिप्पलीपटोलमूलादेरप्यौषधस्य इत्थमुपयोगात् इदमभि'मतमासाद्यते ।
अस्य च क्षीर चुकादि विरोध्यशनस्य परिहारादिदमनिष्टमुप शाम्यतीत्यादिध्वायुर्वेदशास्त्रषु प्रत्यक्षेण तस्यार्थस्य तथा निश्चयाव अर्थाविसंवादित्वं नाम प्रामाण्यं प्रतिपन्नं ; तच्चदमाप्तवादप्रयुक्तम् । 'अतः यत्राप्तवादत्वं तत्र प्रामाण्यमिति व्याप्तिह्यते ॥
* परिहरिष्यते-- अत्रैवाहिके उपरिष्टात् ॥
+परदर्शनविषि-परपक्षासम्मतानि । भायुर्वेदादिदृष्टान्तरयमर्थः समनन्तरमेव वक्ष्यते ॥
+ अस्येत्यादि। उक्तस्योषधस्य पथ्योपदेशोऽयम् ॥ चुकं--तिन्त्रिणीकं व चुकं घौं इत्यमरः ।
| इदमपि-क.
विरोधा-क.
यतः-ख.