________________
आह्निकम् ४] ईश्वरोक्तत्वादेव वेदानां प्रामाण्यम्
603 [शब्दार्थयोः सम्बन्धस्यानित्यस्वेऽपि न शब्दानामर्थासंस्पर्शित्वम्]
* न च नित्यसम्बन्धाभावेऽपि शब्दस्यार्था' संस्पर्शित्वं', समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धरित्युक्तत्वादित्यलं विस्तरेण ॥
तस्मात् पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता ।
पुरुषस्योपपन्नति वेदानां तत्प्रणीतता ॥५०॥ तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणम्, न नित्यत्वात् ॥
वेदानामाप्तोनत्वनिश्चयासंभवशङ्का ननु! आप्तोक्तत्वस्य हेतोः पिक्षधर्मत्वं कथमवगम्यते ? न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्तरणीतत्वमवगम्यते; श्रवणयुगलबललब्धजन्मनि प्रत्यये वेदाख्यशब्दराशेरेव प्रतिभासात् । न चोदात्तादिवत् वर्णधर्मत्वेन आप्तोतत्वं गृह्यते ।।
नाप्यनुमानमस्मिन्नर्थे : लिङ्गाभावात् । प्रामाण्ये हि वेदस्य आप्तोक्तत्वं लिङ्गम् । आप्तोक्तत्वानुमितो तु न लिङ्गान्तरमुपलभामह इति कुतस्त्यः पक्षधर्मत्वनिश्चयः
.. [अनुमानादेव वेदानामासोक्तावनिश्चयः)
उच्यते-अल सरस्वतीक्षोदेन ! उक्त एव पक्षधर्मत्वनिश्चयोपायः। तथा हि
शब्दस्य साधितं तावदनित्यत्वं सविस्तरम् । रचनाः कर्तृप्रत्यश्च रचनात्वादिति स्थितम् ॥ १॥
कर्ता सर्वस्य सर्वज्ञः पुरुषोऽस्तीति साधितम् । - कार्येणानुगुणं कल्प्यं निमित्तमिति च स्थितम् ॥ ५२॥ - *न चेत्यादि । शब्दार्थयोः सम्बन्धस्यानित्यत्वे अर्थमन्तराऽपि शब्दस्य स्थितिमंभवेन अर्थशून्योऽपि शब्दः कश्चिदङ्गीकर्तव्यः-इत्याक्षेपाशयः । सम्बन्धानित्यत्वेऽपि शब्दस्यापि तथात्वेन शब्देन साकमेव समयसिद्धया नार्थशून्यत्वं शब्दानामिति समाधानाशयः ॥
पक्षधर्मत्वं-वेदरूपपक्षवृत्तित्वम् ॥
स्पर्शित्वं-ख.
करण-स.