SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 602 शब्दार्थयोः सम्बन्धनिरूपणम् न्यायमञ्जरी शब्दार्थयोस्सम्बन्धस्थानित्यत्वेऽनवस्थापरिहार:] ननु ! ईश्वरोऽपि सम्बन्धं कुर्वन् अवश्यं केनचित् शब्देन करोति । तस्य केन कृतः सम्बन्धः ? शब्दान्तरेण चेत , तस्यापि केन कृतः? तस्यापि केन? इति न कश्चिदवधिः। तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्धव्यवहारसिद्धाः केचित् अकृतसम्बन्धा एव शब्दा अभ्युपगन्तव्याः। *अस्ति चेत् , व्यवहारसिद्धिः; किमीश्वरेण? किं वा तत्कृतेन समयेन ? 'इत्यनादि'पक्ष पव श्रेयान्उच्यते--- अस्त्रमायुष्मता शातं विपयस्तु न लक्षितः । अस्मदादिषु दोषोऽयं ईश्वरे तु न युज्यते ॥ ४७ नानाकर्मफलस्थानं इच्छयैवेदृशं जगत्। : स्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत् ॥४८॥ इच्छामात्रेण पृथिव्यादेरियतः कार्यस्य करणमस्मदादीनां यन्मनोरथपदवीमपि नाधिरोहति, तदपि यतः संपद्यते, तस्य कियानयं प्रयासः। तदत्रेश्वरसद्भावे परं विप्रतिपत्तयः। तस्मिस्तु सिद्धे क एवं विकल्पानामवसरः ? उक्तं च तत्सिद्धौ निरपवादमनुमानम्। वयं तु न कर्तार एव सम्बन्धस्य, यत एवमनुयुज्येमहि ॥ अङ्गभ्यग्रेण निर्दिश्य कश्चिदर्थ पुरःस्थितम् । व्युत्पादयन्तो दृश्यन्ते बालानस्मद्विधा अपि ॥ ४२ ॥ तस्मात् ईश्वरविरचितसम्बन्धाधिगमोपायभूतवृद्धव्यवहारलब्धतद्वयुत्पत्तिसापेक्षः शब्दः अर्थमवगमयतीति सिद्धम् ॥ * अस्ति चेत्--अवशात्तादृशशब्दसत्त्वमंगीक्रियत इति चेत् ॥ +व्यवहारसिद्धिरिति । अस्य भवत्समयमन्तराऽपीत्यादिः। एतदनन्तरं च 'ततश्च' इत्यप्यध्याहार्यम् ॥ *अयं दोषः-शब्दान्तरेण सङ्केतकरणेऽनवस्थादिः। कुतो नास्ति--- इत्यत्रैवोत्तरं अनन्तरश्लोकः । तथा च इच्छयैव सङ्केतकरणमिति नानवस्था ॥ इत्यनाथ-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy