________________
भाडिकम् ४] शब्दार्थसम्बन्धस्येश्वरकृतस्वम्
601 [शक्तेः शब्दार्थसम्बन्धस्वे लोकानुभवविरोधः ] तथा चेमियती व्युत्पत्तिः लोके दृश्यते-- यत् अयमस्य वाच्यः, अयमस्य वाचक इति, न पुनः शक्तिपर्यन्ता व्युत्पत्तिरस्ति। तथा हि --यत्र शृङ्गग्राहिकया शब्दमर्थ च निर्दिश्य सम्बन्धः क्रियते, तत्रेयन्तमेवैनं क्रियमाणं पश्यामः--अयमस्य वाच्यः, अयमस्य वाचक इति॥
यत्रापि च वृद्धेभ्यः व्यवहरमाणेभ्यः व्युत्पद्यते, तत्रापीयदेवासी जानांत-अयमथ: अनुतः शब्दात् अनेन प्रतिपन्न इति, न वन्याऽस्य काचिन्छक्तिरस्तीति । इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तः, अस्याश्चापरिहार्यत्वात् , अधिककल्पनाबीजाभावाच्च न नित्यः शब्दार्थसम्बन्धः ॥
सम्बन्धग्रहणविषये सिद्धान्तस्य मीमांसकमताद्विशेषः] अत एव च सम्बन्धः *त्रिप्रमाणकः' (श्लो. वा. १-१-५ सम्ब. परि. १७१) इति यत् त्वयोच्यते तदस्माभिर्न मृष्यते। ‘शब्दवृद्धा भिधेयांश्च प्रत्यक्षेणात्र पश्यनि ' इति सत्यम्। 'श्रोतुश्च प्रतिपन्नत्वं अनुमानेन चेप्टया'. इत्येतदपि सत्यम्। 'अन्यथाऽनुपपत्त्या तु वेत्ति शक्तिं द्वयात्मिकाम्' इत्येतत्त 'न सत्यम्'; अन्यथाऽप्युपपत्तरित्युक्तत्वात्। तस्मात् द्विप्रमाणकः सम्बन्ध निश्चयः, न त्रिप्रमाणकः ॥ - तदेवं शब्दस्य नैसर्गिकशक्तयात्मकसम्बन्धाभावात ईश्वर विरचितसमयनिबन्धनः शब्दार्थव्यवहारः नानादिः ॥ ...* त्रिप्रमाणक इति। इदं च प्रकरणं पूर्वमेव (पु. 223) विचारितम् । तत्र यद्यपि भापक्षः स्वसम्मतत्वेनोक्त इव ; अथापि सम्बन्धाधिगमस्य नानाप्रमाणगम्यत्वमात्रे सम्मतिः पूर्व प्रदर्शितेति मन्तव्यम् ॥
द्विप्रमाणक इति । प्रत्यक्षानुमानप्रमाणकः, न स्वर्थापत्तिरपेक्ष्यत इत्यर्थः ।।
'सत्यम्-क.