________________
600
शम्दार्थयो: सम्बन्धनिरूपणम्
न्यायमअरी
* पिकनेमतामरसादिशब्दानां च भवद्भिः म्लेच्छप्रयोगात् अर्थनिश्चय आश्रित एव । अवेट्यधिकरणे (जै. सू. २-३-३) 'राज'शब्दं
आन्ध्रप्रसिद्धेऽर्थे वर्णितवन्तो भवन्त इति अलमवान्तरचिन्तनेन । तस्मात् समय एव सम्बन्ध इति युक्तम् । तदुक्तं 'जातिविशेषे चानियमात्' (न्या. सू. २-५-५७) इति॥
[सर्गादौ सकृदेव शब्दानां समयकरणम् ] अथ यदुक्तं -समयः प्रत्युच्चारणं, 'प्रतिपुरुष, सर्गादौ सकृत् क्रियते ? इति (पु. 503) -प्रत्युच्चारणं, प्रतिपुरुपं च तत्करणं' अनभ्युपगतमेव दूषितम। सर्गादौ सकृदेव समयकरण मिति नः पक्षः ॥
अत एव न सर्वशब्दानां यदृच्छातुल्यत्वन। केषाश्चिदेव शब्दानां अस्मदादिभिरद्यन्ने सङ्केतकरणात तत एव यदृच्छाशब्दा उच्यन्ते। सर्गादिश्च समर्थित एव (पु. 510। ईश्वरसिद्धावप्य'विकल'मनुमानमुपन्यस्तम (पु. 191-52)
[पूर्वपक्षिसिद्धान्तिनो: विशेषः] एष एव चावयोर्विशेषः --यदेष शब्दार्थसम्बन्धव्यवहार: तवानादिः, मम तु जगत्सर्गात् प्रभृति प्रवृत्त इति। अद्यत्वे तु शब्दार्थसम्बन्धव्युत्पत्तौ तुल्य एवावयोः पन्थाः। तत्रापि त्वयं विशेषः--- यत तव शक्तिपर्यन्ता व्युत्पत्तिः, मम तु तिमिति। '
'पिकेत्यादि । पिकनेमाधिकरणे (१-३-५) अविरोधे सति म्लेच्छप्रसिद्धिरपि ग्राह्येति सिद्धान्तितम् । 'पिक इति कोकिलो ग्राह्यः, नेमोऽध, तामरसं पद्म, सत इति दारुमयं पात्रं, परिमण्डलं शतच्छिद्रम्' इति शाबरभाष्यम् (१-३-५)॥
आन्ध्रप्रसिद्ध इति । 'जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपि क्षत्रिये राजशब्दमान्ध्राः प्रयुञ्जते । आन्ध्राणां प्रयोगो न विरोत्स्यते' इति तत्रत्यं शाबरं भाष्यम् ॥ .
तर्जमिति। अर्थपर्यन्तैव हि व्युत्पत्तिः, 'तद्धेतोरेव तद्धे तुरवे मध्ये किं तेन' इतिन्यायात् मध्ये शक्तिकल्पनं व्यर्थम् ॥
राज्य-ख. 'प्रतिपुरुषं-ख. 'तत्कारणं-ख. 'विकल्प-ख.