________________
आहिकम ४]
अविनाभावादेः शन्दार्थसम्बन्धस्वासंभवः
599
सर्वशब्दानां सर्वार्थप्रत्यायनश क्तमत्त्वं न घटते ननु! अत्रोक्तं सर्वे शब्दाः सर्वार्थप्रत्यायनशक्तियुक्ता इति केनचिदर्थेन क्वचिद्यवहार इति (पु. 595) तदेतदयुक्तम्-शक्तीनां मेद भेद बिकल्पानुपपत्तः। न शब्दस्वरूपात भिन्नाः शक्तयः तथाऽनवभासात् । अन्यतिरेके च एकस्माच्छब्दादनन्यत्वात् परस्परमव्यतिरेकस्तासां स्यात् । न च मिनकार्यानुमेया भिन्नाः शक्तयः; कार्यभेदस्या न्यथाऽप्युपपत्तेः । सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः। समयोपशेगो नियामक इति चेत् ; स एवास्तु कि शक्तिभिः
[सादृश्यमेवार्थसंदेहकारणम् , न तु पदानां सर्वशक्तिमत्त्वम् ] ___ यदप्यगादि--शब्दश्रवणे सति सर्वार्थविषयसन्देहदर्शनात् सर्वत्र तस्य शक्तिः कल्प्यत इति (पु. 505) तदप्यसारमन हि शक्तिकृतः सन्देहः, किन्तु गत्वादिवर्णसामान्य निबन्धनः। तथा च गत्वादिजातिमतां वर्णानां अर्थ वाचकत्वमवगतम् । 'अमी तज्जातियोगिनो वर्णाः 'कस्यार्थस्य' वाचकाः स्युः ? ' इति भवति सन्देहः ॥
[म्लेच्छजनमसिद्धार्थस्यापि कुत्रचित ग्रहणं मीमांसकसम्मतम् ]
यत्पुनरवादि-स एव शब्दस्यार्थः, यत्रनमार्याः प्रयुञ्जत, न म्लेच्छजनप्रसिद्ध इति (पु. 525)-तदेतत् कथमिव शपथमन्तरेण प्रतिपद्यमहि । न हि म्लेच्छदेशेऽपि तदर्थप्रत्ययो न जायते, बाध्यते वा, सन्दिग्बो वेति कथं न शब्दार्थः ? ___आर्यप्रसिद्धिर्वाधिकेति चेत् आर्यप्रसिद्धरपि म्लेच्छप्रसिद्धिः कथं न बाधिका? अक्षादिवञ्च विकल्प्यमानार्थोपपत्तेः व्यस्थितविषय एव विकल्पो भविष्यति ।।
* तासां स्यादिति। तथा च देशभेदेनार्थभेदो न स्यात् ॥ + अन्यथाऽपि-शक्तिभ्रमादिनाऽपि ॥ 1 सर्वार्थप्रत्ययप्रसङ्गः इत्यत्र 'सर्वशब्दात्' इति शेषः ।। अक्षादिवदिति। लक्षशब्दः इन्द्रियवाची युतविशेषवाची च ॥
1 यस्यार्थस्य-क.