SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 598 शब्दार्थयोः सम्बन्धनिरूपणम् न्यायमरी शब्दार्थयोरिति (पु. 593)--एतदप्य चतुरश्रम्-तदाश्रयत्वाभावेऽपि शानस्य *तद्विषयत्वोपपत्तः ॥ [शाब्दबोधस्य समयाधीनत्वेऽपि शब्दस्यैव तत्र हेतुत्वम् ] ___ यदप्यमा णे-समयमात्रशरणे सृषिप्रतोदनोदननिर्विशेषे शब्दे शब्दादर्थ प्रतिपद्यामह इति व्यपदेशः न स्यादिति (पु. 591). तदपि यत्किञ्चित। नैसर्गिकशक्तिपक्षेऽपि शक्रय प्रतिपद्यामहे, 'न शब्दात्' इति व्यपदेशः स्यात् । अविनाभावादग्नि प्रतिपद्यामहे, न धूमात्" इति स्यात् । तदङ्गत्वादविनाभावादेः न तथा व्यपदेश इति चेत् ; तदितरत्रापि समानम् ॥ धूमे हि व्याप्तिपूर्वत्वं शब्दे समयपूर्वता । नानयोस्तदपेक्षायां करणत्वं विहन्यो । ४६॥ [समयस्य शब्दार्थसम्बन्धत्वे लोकव्यवहारोऽपि प्रमाणम् ] अपि च लौकिको व्यपदेशः समयपक्षसाक्षिता मेव' भजते । देवदत्तेनोक्तं 'अमुतः शब्दादमुमर्थ प्रतिपद्यस्वेति' इत्येवं हि व्यपदिशति लोकः । तस्मात् समय एव ॥ अतश्चैवं देशान्तरे सङ्केतवशेन ||तत एव शब्दादर्थान्तरप्रतिपत्तिः॥ * तद्विषयत्वोपपत्तः-ज्ञानात्मकत्वेऽपि विषयतासम्बन्धनार्थनिष्ठत्वात् ॥ +सृणीति । 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः ॥ इष्टापत्तावाइ- अविनाभावादित्यादि। तदङ्गत्वात्-धूमानत्वात् । अविनाभावः खलु सम्बन्धः । स चाश्रयभपेक्षत एवेति न धूमपरित्यागसंभव इति चेत् , तत् शब्देऽपि समानमित्यर्थः ॥ || तत एव-देशान्तरीयसङ्केतवशादेव ॥ शब्दात्-चोरादिशब्दात् ॥ 1 न किञ्चित-ख. 'न धूमात्-ख. 3 मिव-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy