________________
अविनाभावाः शब्दार्थसम्बन्धवासंभवः
597
पुत्पता विमानम् । अत एव *अवातिपूर्वि कैवावगतिरिहेत्यतु मानात् शब्दस्य भेद उक्तः ॥
प्रकाशकत्वमपि शब्दम्य समयप्रसादोपनतमेव, न स्वाभाविकम् । सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तात् , अन्यतो वा यतः कुतश्चित् अभिनवादपि दीपादिव शब्दादर्थमतीतिः स्यात् ॥
शब्दार्थसम्बन्धस्य व्याप्त्याख्यसम्बन्धाद्विलक्षणत्य] __ यत्त नैसर्गिकेऽपि प्रकाशकत्वे शब्दस्व धूनादेरिव ज्ञापकत्वात् सम्बन्धग्रहणसापेक्षत्वमुक्तम् (पु. 595)-स ए.प विषम उपन्यासः । न हि धूमादेः प्रत्यायकत्वं स्वाभाविकम, अनलाविनाभावित्वं तु तस्य नि बलम् । तत्र चागृहीते तस्मिन् प्रतीतिरेव न जायते इति युक्तं तद्भहणं प्रतीत्यर्थम्। इह तु प्रतीतिशक्तिरेव स्वाभाविकी भवताsभ्युपगम्यते । सा चेत् स्वाभाविकी, किं व्युत्पत्यपेक्षणेन ? इिति ॥
शब्दार्थसम्बन्धस्य अर्थात् समयरूपत्वे पर्यवसानम् । 'यदि चोच्यते--प्रत्यायक इति प्रत्ययं दृष्टाऽवगच्छामः, न प्रथमश्रवण इति। यावत्कृत्वः श्रुतेन 'इयं संज्ञा, अयं संज्ञी' इत्यवगम्यते, तावत्कृत्वः श्रुतादर्थावगम इति- सोऽयं समयोपयोग एवं कथितो भवति। संज्ञामशिसम्बन्धो हि समय एवोच्यते । तदुपयोगमन्तरेण प्रत्यायकत्वानवगमात् न स्वाभाविकी शक्तिः ।।
सिमयस्य विषयनिष्ठन्वोपपत्तिः] - यत्त्वभ्यधायि-समयस्य ज्ञानात्मकत्वात् आत्मनि वृत्तिः, न ___*अवगतपूर्विकेति। धूमवयोधविनाभावः न पुरुषकल्पितः, किन्तु - सहजः । . गब्दार्थयोस्तु सम्बन्धः न तथा सहज , किन्तु कल्पितः । ततश्व . 'अस्मात् पदादयमों बोद्धव्यः' इत्याकारकस्य संकेतम्य परिज्ञानमन्तरा न शाब्दबोधसंभव इति भावः। । किं व्युत्पत्त्यपेक्षणेनेति। अनुपदमेवोक्तः दीपादिदृष्टान्तः ॥
प्रत्ययं दृष्यति। तथा च प्रत्यायनशक्तेः कार्यानुमेयत्वेन न दीपादितौल्यम्॥
यचोच्यते-ख