________________
आह्निकम् ४] समयस्यैव शम्दार्थसम्बन्धत्वस्थापनम्
595 देशभेदेनार्थभेदः न समयाधीनः] यत्पुनरुच्यते--'जातिविशेषे चानियमात्' (न्या. सू २-१-५७) समयरूपः सम्बन्ध इति --- *जातिशदनात्र देशो-विवक्षितः। किल क्वचिद्देशे कश्चिच्छब्दः देशान्तर'प्रसिद्ध'मर्थ मुत्सृज्य ततोऽर्थान्तरे वर्तते। यथा ' चोरशब्दस्तस्करवचनः, ओदने दाक्षिणात्यैः प्रयुज्यते । एतच समयपक्षे युज्यते, नित्ये तु सम्बन्धे कथं तदर्थव्यभिचार इति --'तदप्ययुक्तम्-सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क्वचिदेशे केनचिदर्थन व्यवहारः ॥
अत एव चानवगतसम्बन्धे श्रुते सति सन्देहो भवति-कमर्थ प्रत्याययितुमनेनायं शब्दः प्रयुक्तः स्यात्' इति। असत्यां हि शक्ती अकृतसमये निरालम्पना प्रत्यायकत्वाऽऽशङ्केति ॥
भार्यप्रसिद्धार्थस्यैव म्हणं युक्तम् ] ___ अथवा आर्यदेशप्रसिद्ध एव शब्दानामर्थः, इतरस्तु म्लेच्छजनसम्मतोऽनादरणीय एव। तस्मात् समयपक्षस्यातिदौर्बल्यात् अकृत्रिम एव शब्दार्थयोः सम्बन्ध इति.न तत्र पुरुषस्य प्रभविष्णुता । [शब्दार्थयोः सम्बन्धः समयातिरिक्तः वक्तुं न शक्यः इति सिद्धान्तः]
अत्रोच्यते-न नित्यः सम्बन्ध उपपद्यते ; शब्दवत् अर्थवञ्च तृतीयस्य तस्य प्रत्यक्षादिना प्रमाणेन अप्रतीयमानत्वात् ॥
• [शक्ते: शब्दार्थसम्बन्धरूपत्वासंभवः] ननु ! शक्तिरूपः सम्बन्ध इत्युक्तम्। शक्तिश्च तदाश्रितेति कथं धर्म्यन्तरवत् पृथक्तया 'प्रतीयेत? --नैतत्लांप्रतम्-स्वरूपसह
* उक्तस्यैव विवरणभ-जातीत्यादि ॥ + वक्ष्यमाणविवरणानुसारेण-देशो विवक्षित इति ॥
चोरशब्द इति। यद्यपि वेचन 'शोर' इति वदन्ति, परन्तु 'चोर' इत्यपि बदन्ति केचन, विशिष्य केरलीयाः। हिन्दीभाषायां मन्न्याक्षरस्यार्धाक्षरत्वेनैव उच्चारणम् ॥
प्राप्तप्रसिद्ध-ख.
चोर-ख.
एतद-क.
'प्रतीयते-ख.
38*