________________
594 . शम्दाथया: सम्बन्धनिरूपणम्
न्यायमञ्जरी मेदपने कथ मेकार्थसंज्ञानम् ----गोशब्दस्य रसास्मादिमानर्थः, केसरादिमानश्वशब्दस्य ? इति ॥
अमेदेऽपि तथैव कृतस्य करणायोगात् ज्ञानमेव सम्बन्धस्य करणम् ॥
सर्गादावपि सकृत्सम्बन्धकरणभयुक्तम् । तथाविधकालासम्भवादेव। न हि शब्दार्थव्यवहाररहितः कश्चित्काल उपपद्यते । तस्मानित्यस्यय सम्बन्धस्य लोकतो व्युत्पत्तिः, न पुनः करणम् ॥
[पाब्दार्थयो: स्वाभाविकसम्बन्धपक्षस्य निर्दुष्टत्वम् | व्युत्पतिपक्षेचन करणपक्षाभिहिता दोषाः स्पृशन्ति, प्रत्यक्षा सिद्धत्वात् । प्रत्यक्षं हीदमुपलभ्यते। वृद्धानां हि स्वार्थे व्यवहरमाणानां उपशृण्वन्तो बालाः ततस्ततः शब्दात तं तमर्थ प्रतियन्ति । तेऽपि वृद्धा यदा वाला आसन् , तदा अन्येभ्यः वृद्धभ्यः तथैव प्रतिपन्नवन्तः। तेऽप्यन्येभ्य इति नास्त्यादिस्संसारस्यति ।
समयपक्षेऽपि शब्दार्थयोगसम्बन्धस्य स्वाभाविकत्वमवर्जनीयम्
अपि च समयमात्रशरणः शक्तिशून्यः शब्दः कथमक्षिनिकोचहस्तसंज्ञादिभ्यः भिधेत? स हि तदानी कशाङ्कशप्रतोदाभिघातस्थानीय एव भवेत् । तथा च शब्दादर्थ प्रतिपद्यामह इति लौकिको व्यपदेशो बाध्येत, समयादर्थ प्रतिपद्यामह इति स्यात् । समयपक्ष च यदृच्छाशब्दतुल्यत्वं सर्वशब्दानां प्रानोति। तेन 'गवाश्वादि'शब्दानां नियत विषयत्वं न स्यात् ॥
* एकाति। द्वयोरपि परस्परं शब्दभेदात् कृतसमयभेदात् द्वाभ्यां परस्परं एकवस्तुविषयकाकव्यवहारः कथमित्यर्थः ।।
अशिनिकोचः--अक्षिचेष्टाविशेषः ॥
कशाङ्कशेत्यादि। ध्वन्यादिवदिति भावः। भयङ्करध्वन्यादिश्रवणे दृश्यत एवापसर्पणादिकम् ॥
यतनछाशब्दः----ध्वन्यादिवत् रूढः शब्दः ।
गवावादीना-ख.