________________
आह्निकम् ४]
समयस्य शम्दार्थसम्बन्धत्वासंभवाशङ्का
593
[शब्दस्य ज्ञातस्य सत: अर्थबोधजनकत्वम् ] ‘स्वाभाविके सम्बन्धे सति दीपादिवत् किं तद्युत्पत्त्यपेक्षणेनेति 'चेत्-न-शब्दस्थ ज्ञापकत्वात् । ज्ञापकस्य धूमादेः एतत् रूपं, यत् सम्बन्धग्रहणापेक्षं स्वज्ञा प्यज्ञापकत्वम्। 'उद्योतादयस्तु *प्रत्यक्षसामग्रयन्तर्गतत्वात नव्युत्पत्त्यपेक्ष्या भवन्ति । शक्तिस्तु नैसर्गिकी यथा रूपप्रकाशिनी दीपादेः, तथा शब्दस्यार्थप्रतिपादने । तस्मात् न समयमात्रात् अर्थप्रातपत्तिः ॥
[समयस्य अर्थनिष्ठत्वाभावेन शब्दार्थसम्बन्धत्वासंभव:] __ _ीच अभिधानाभिधेय नियमनियोगरूपः समय: ज्ञानमेव, न ततोऽर्थान्तरम्। ज्ञानं चात्मनि वर्तते, न च शब्दार्थयोरिति न तयोः सम्बन्धः स्यात् ॥
[समयेन शाब्दबोधनिर्वाहासंभवः] किञ्च समयः क्रियमाणः, प्रत्युञ्चारणं वा क्रियते? प्रतिपुरुषं 'वा? सर्गादौ वा सकृदीश्वरेण ? इति ॥
प्रत्युच्चारणं प्राक्तन एव क्रियते? नूतनो वा? नवस्य तावत् क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्य मवगम्यते ? तदवगतौ वा किं तत्करणेन? पूर्वकृतस्य 'तु' कृतत्वादेव पुनः करणमनुपपन्नम् । एकस्य वस्तुनः ज्ञप्तिरसदावर्तते, नोत्पत्तिः॥
प्रतिपुरुषमपि सम्बन्धःमिन्नः? अभिन्नो वा क्रियते?
* प्रत्यक्षसामग्रीति। प्रत्यक्षस्थल एवेन्द्रियादेः स्वरूपसत एव कारणत्वम् । परोक्षस्थले तु लिङ्गादेः ज्ञातस्य सत एव कारणत्वमित्यनुभवबलादङ्गीकर्तव्यम् ॥
कथमिति । नूतनत्वमेवात्र हेतुः ॥
* किं तत्करणेनेति। नूतनेनैतावताऽनवगतेन यद्यर्थप्रतीतिः, तर्हि केवलेन शब्देनैव तथा बोधोऽस्त्वित्यर्थः ॥
व्युत्पस्यपेक्षा-ख.
'वा-क.
1 चेत्-क. 'तयोग्यतादयस्तु-ख. तदवगमे-क. तदा-ख.
NYAYAMANJARI