________________
592 शब्दार्थयो: सम्बन्धनिरूपणम्
न्यायमरी . समयाख्यशब्दार्थसम्बन्धस्वरूपशोधनम] ___ कोऽयं समयो नाम ? अभिधानाभिधेय नियमनियोगः समय उच्यते ॥
* यद्येव किमनाशङ्कनीयसंश्लेषपरिचोदनेन ? तद्दषणेन च ?--- उच्यते - शब्दार्थाभेदवादिनां हि वैयाकरणानां एष 'संश्लेषरूपः सम्बन्धो बिलादापततीति त एव प्रतिक्षेप्यन्ते ॥ .
[शब्दार्थयोरविनाभाव एव सम्बन्ध इत्याक्षेपः] आह-यदि वैयाकरण वर्णितो न: संश्लग उपपत्तिमान्, समयोऽयमनुपपन्न एव। स हि पुरुषकृतः सङ्केतः। न च पुरुषेच्छया वस्तुनियमोऽवकल्पते, तदिच्छाया ६ अव्याहतप्रसरत्वात् ॥ .
अर्थोऽपि किमिति वाचको न भवनि, शब्दश्च वाच्य। न चैवमस्ति-दहनमनिच्छन्नपि पुरुषः धूमात् न तं प्रत्येति ; जलं वा तत इच्छन्नपि प्रतिपद्यते । तत्र यथा धूमाग्नयोः नैसर्गिक एवाविनाभावो नाम सम्बन्धः, "ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोः सांसिद्धिक एव शक्तयात्मा सम्बन्धः, तात्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् ॥
*यद्येवमित्यादि। यदि समय एव शब्दार्थयो: सम्बन्धः, तर्हि वृथा किमर्थः अप्रसक्तसंश्लेषादिपक्षविचारोपक्षेपः -- इति शङ्काऽऽशयः। अस्ति कश्चन पक्ष: तादृश इति नाप्रसक्त नराकरणमिति सम धानाशयः ॥
बिलादिति । शब्दार्थयोस्तैरविनाभाववर्णनात् ॥ * संश्लषः -- तादात्म्यम् । शब्दविवर्तवादिनो हि ते ॥ 8 अव्याहतप्रसरत्वात्---उच्छृङ्खलत्वादिति भाव: ॥
|| अर्थोऽपीति। पुरुषेच्छाया उच्छृङ्खल वादेव । न चेष्टापत्ति:, नियमस्य लोके दर्शनात् । नियम एव च व्याप्तिः, स एव च अविनाभावः। ततश्च शब्दार्थयोः सम्बन्धः अविनाभाव इति स्वयमापतितमित्याशयः ॥
वैयाकरणवत्-ग.
3 न भवति-ख.
1 संशेष उपपत्तिमान्-ख. 4 तद्व्युत्पत्तये-क.