________________
आह्निकम् ४]
शब्दार्थयोरसम्बन्ध पक्षभेदा:
591
दहनशक्तिः शब्दस्य नैसर्गिकी वाचकशक्तिः । व्युत्पत्तिस्तु वृद्धेभ्य एव व्यवहरमाणेभ्य उपलभ्यत इति किमत्र पुरुषः करिष्यति ? इति तदप्यघटमानम् - पुरुषपरिवटित समय सम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुपपत्तेः ॥
-
[ प्रसङ्गात् शब्दार्थयोः सम्बन्धाक्षेपः ]
ननु ! नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति । कस्येदं पुरुषसापेक्षत्वं वा, निरपेक्षत्वं वा चिन्त्यते ?
न हि शब्दार्थयोः कुड्य बदरयोरिव संयोगस्वभावः, तन्तुपटयोरिव समवायात्म वा सम्बन्धः 'प्रत्यक्ष' उपलभ्यते । तन्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति । तदुक्तं ' मुखे शब्दमुपलभामहे, भूवम्' इति ॥
नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः; क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणानुपलम्भात् । न च शब्ददेशे अर्थः संभवति, न चार्थदेशे शब्दः; स्थानकरणप्रयत्नानां तद्धेतूनां घटाद्यर्थ प्रदेशे ऽनुपलम्भात् । व्यापकत्वं तु शब्दस्य प्रतिषिद्धमेव ॥
[शब्दार्थयोस्सम्बन्धे विकल्पाः ]
उच्यते—न संश्लेषलक्षणः शब्दार्थसम्बन्धः अस्माभिरभ्युपगम्यते । * तत् किं कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः ? एतेऽपि न तराम ॥
न नास्ति शब्दस्यार्थेन
न तर्हि तस्य कश्चिदर्थेन सम्बन्धः ? सम्बन्धः प्रत्ययनिमित्तहेतुत्वात्; धूमादिवत् ॥
तत् किं शब्दार्थयोरविनाभावः सम्बन्धः ? सोऽपि नास्ति ; एवं हि शब्दोऽनुमानमेव स्यात् ॥
कस्तर्हि ? समय इति ब्रूमः ॥
* तत्कि इत्यादी पूर्ववाक्यमाक्षेपपरं, उत्तरं च समाधानपरम् ॥
प्रत्यक्ष - ख.
12 देशे - ख.