________________
550 शब्दार्थयोस्सम्बन्धनिरूपणम्
न्यायमञ्जरी [सर्वशाखाप्रत्ययन्यायस्य युक्तत्वकथनम् | * अपि च यथा तरोविक्षिप्ताः शाखा भवन्ति, न च कृत्स्नं पुष्पफल पत्रमेकस्यां शाखायां सन्निहितं भवति, किन्तु 'कस्याञ्चित्कस्याश्चित् ; एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विक्षिप्ताश्च ॥
तासां च वृक्षशाखानां एकस्माजन्मबीजतः। तथैव सर्वशाखानां एकस्मात् पुरुषोत्तमात् ॥ ४३॥ ..
[वेदा ईश्वरोपदेशरूपा:] कर्ता य एव जगतामखिलात्मवृत्ति__ कर्मप्रपञ्चपरिपाकविचित्रताज्ञः । विश्वात्मना तदुपदेशपराः प्रणीताः
तेनैव वेदरचना इति युक्तमेतत् ॥ ४॥ आप्तं तमेव भगवन्तमनादिमीशं . __ आश्रित्य विश्वसिति वेदवचस्सु लोकः । तषामकर्तृकतया न हि कश्चिदेवं
विस्रम्भमेति मतिमानिति वर्णितं प्राक् ॥ ४५ ॥ एवञ्च पदवाक्यरचनादौ तावत् वेदेषुपुरुषापेक्षित्वमुपपादितम् ॥
शब्दार्थसंकेतकरणार्थमीश्वरापेक्षाऽस्त्येव यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते- चित्रभानोरिव * अपि चेत्यादि। आम्रवृक्षे हि एकस्यां शाखायां पुष्पमात्रोद्गमः । अपरस्यां च फलदर्शनम् । अथापि तत्रैक्यं यथा तथेत्यर्थः ॥
+ननु तत्र मूलस्य बीजस्यैक्यादेक्यमिति चेत्, तत् वेदेऽपि तुल्यमित्याह-तासामिति ॥
+ तदुपदेशपरा:--स्वोपदेशपरा इति यावत् ॥
$ वेदाख्यशब्दस्य स्वरूपे पुरुषापेक्षाभागन्नित्यत्वमित्यशो निरस्तः । अथ शब्दार्थयोः सम्बन्धस्यापि नित्यत्वेन सङ्केतकरणार्थमपि पुरुषापेक्षा नास्तीत्यपौरुषेयत्वं सम्बन्धभाष्यवार्तिकादिषूक्तं (शा. भा. 1-1-5) अनूय दूषयति-यदपीति ॥
कस्यचि-क.