________________
589
आह्निकम् ४] सर्ववेदानामेककर्तृकत्वम् समवायिभिरङ्गैः अन्धितं प्रयुज्यते । तत्र हि हौत्र ऋग्वेदेन, यजुर्वेदेनाध्वर्यवं, औद्गात्रं सामवेदेन, ब्रह्मत्वमथर्ववेदेन च क्रियते । पैप्पलादिशाखाभेदोपदिष्टं च तत्तदङ्गजातं तत्र तत्रापेक्ष्यते। तत्र सर्वशाखाप्रत्ययं एकं कर्मत्याहुः। एतच्च अदूर एव अग्रे (पु. 50) निर्गप्यते ॥
एकाभिप्रायबद्धत्वं तेन सर्वत्र गम्यते । भवेद्भिन्नाशयानां हि कथमेकार्थमीलनम् ? ॥ ३९ ॥
समस्यापूरणादावपि कत्रैक्यमेव काव्यसमस्यापूरणे का वार्ता? इति चेत्-- तत्रापि प्रथमस्यैव कवे स्तद्वस्तुदर्शनात् । तदभिप्रायवेदी तु सोऽन्यस्तमनुवर्तते ॥ ४०॥ अन्यथाऽनन्वितं काव्यं स्या द्विश्ववसुकाव्यवत् । अन्वितत्वे तु सा नूनं आद्यस्यैव कर्मतिः॥४१॥
इहाप्येकाशयाभिज्ञद्वितीयेश्वरकल्पने। एकाभिप्रायतैव स्यात् , 'किं च'तत्कल्पने फलम्? ॥४२॥
तस्मादेक एव कर्ता सर्वशाखानाम्। काठकादिव्यपदेशस्तु प्रष्टाध्ययननिबन्धनो भविष्यतीति भवद्भिरप्युक्तम् ।। _. * तद्वस्तु ---पूरणीयं वस्तु । एवञ्च समस्यापूरणे द्वितीयेन प्रथमाभिमतार्थप्रकटनमात्रं, न तु नूतनार्थकल्पनमित्यर्थः ॥
+विश्ववसुः -कश्चित्कविः ॥
वेदेऽपि तादृशा एव वा बहवः कुतो न स्युरित्यत्र, तथाऽवश्यकता नास्तीत्याह---इहापीति ॥
प्रकृष्टेति। दृश्यते हि लोकेऽपि पूर्वमेव स्थितस्य ग्रामस्याभिवर्धनादिभिरेव ' कृष्णराजनगरम् ' इत्यादिराजनाम्ना व्यपदेशः ॥
किं स्यात्-ख.