________________
588
वेदपौरुषेयत्वसाधनम्
[न्यायमरी
संकल्पयति यदेकः शुभमशुभं वाऽपि सत्यसङ्कल्पः । तत्सिध्यति तद्विभवात् इत्यपरस्तत्र किं कुर्यात् ॥ ३३॥ भिन्नाभिप्रायतायां तु कार्यविप्रतिषेधतः । नूनमेकः स्वसङ्कल्पविहत्याऽनीश्वरो भवेत् ॥ ३४॥ एकस्य किल सङ्कल्पः राजाऽयं क्रियतामिति । हत्यतामिति चान्यस्य तौ समाविशतः कथम ॥ ३५॥ राज्यसङ्कल्पसाफल्ये विहता वधकामना । तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः ॥ ३६॥ तेन चित्रजगत्कार्यसवाहानुगुणाशयः । एक एवेश्वरः स्रष्टा जगतामिति साधितम् ॥ ३७॥
एवं *जगत्सर्गवत् स एव वेदानामप्येकः प्रणेता भवितुमर्हति।' नानात्वकल्पनायां प्रमाणाभावात् , कल्पनागौरवप्रसङ्गाश्च ॥
तेन यदुच्यतेनन्वेकः सर्वशाखानां कर्तेत्यवगतं कुतः? , बिहवो बहुभिर्ग्रन्थाः कथं न रचिता इमे? ॥ ३८ ॥ इति- तत्परिहृतं भवति ॥
[ वेदानामेककर्तृकत्वे प्रमाणान्तरम् . अतश्च एककर्तृका घेदाः, यतः परस्परव्य तिषक्तार्थीपदेशिनो दृश्यन्ते । * एकमेव हि कर्म वेदचतुष्टयोपदिष्टैः पृथग्भूतैर प्येकार्थ
* जगत्सर्गस्येव-जगत्सर्गवत् ॥ ___ बहव इति । बहुभिः कृताः वेदा अपि न एकग्रन्थरूपा इत्यर्थः । कर्तृभेदेऽपि कादम्बर्यादौ ऐकग्रन्थ्यदर्शनादेवमुक्तम् । सिद्धान्ते ईश्वरकृतत्वात्सर्वदोषपरिहारः॥
एकमेवेत्यादि। 'एकं वा संयोगरूपचोदनाख्याऽविशेषात् ' (जै. सू. 2-4-9) 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्' (व. सु. ३-३-९) इत्यादौ शाखाभेदेऽपि कर्मणः उपासनस्य च ऐक्यं साधितमेव पूर्वोत्तरमीमांसकैः । संयोगः--फलसंयोगः। रूपं- स्वरूपम्। चोदना-- विधिः । आख्या---नाम। एतेषामविशेषात् एकमेव कर्मेत्यर्थः ॥