________________
आह्निकम ४]
जगत्स्रष्टुरेव वेदोपदेष्टृत्वम्
[ईश्वरस्यानुमानिकत्वेन नान्योन्याश्रयादिः ]
यदपि इतरेतराश्रयमभाषि (पु. 191 ) – पुरुषोके वेदेप्रामाण्यं, वेदमाण्यात् पुरुषसिद्धिरिति तदपि न सम्यक् पूर्व (पु. 503) परिहृतत्वात् । अनुमानात् प्रसिद्धे कर्तरि वेदवाक्यैः * तत्प्रतीतेपोलन मिष्यते, न त्वागमैकशरण एव कर्तवगमः । उक्तं च पूर्वमपि (पु. 491) पृथिव्यादिना कार्येण कर्तुरनुमानम् ॥
587
[ जगत्कर्तुरेव वेदोपदेष्टृत्वम् ]
किं येनैव कर्त्रा पृथिव्यादिकार्य निर्मितं, तेनैव वैदिकयो रचना निर्मिताः । इति चेत् - ओमित्युच्यते । किमत्र प्रमाणम् ? इति चेत्उच्यते, तर्हि सर्वज्ञः स्रष्टुं प्रभवतीदृशम् । विचित्रं प्राणिभृत्कर्मफलभोगाश्रयं जगत् ॥ २९ ॥ तत्कर्मफल सम्बन्धविदा + तदुपदेशिनः । तेनैव वेदा रचिताः इति नान्यस्य कल्पना ॥ ३० ॥ + एकेनैव च सिद्धेऽर्थे द्वितीयं कल्पयेम किम् ? कल्पनाबीजं न हि किञ्चन विद्यते ॥ ३१ ॥
[वेदोपदेष्टः एकत्वम् ]
जगत्सर्गे तावत्, एक एवेश्वर इप्यते न द्वौ बहवो वा । भिन्नाभिन्नाशय कल्पने, एकत्र वैयर्थ्यात् । || इतरत्र व्यवहारवैशसप्रसङ्गेन, तत एकस्येश्वरत्व विघातात् । तथा हि
अनेकेश्वरवादो हि नातीव हृदयङ्गमः ।
ते चेत् सदृशसङ्कल्पाः, कोऽर्थो बहुभिरीश्वरैः ? ॥ ३२ ॥
* तत्प्रतीतेः - अनुमानप्रमितेश्वरप्रतीतेः ॥
+ तदुपदेशिनः वेदाः इत्यन्वयः ॥ एकेनैव ईश्वरेण ॥
8 उपस्थितिसामीप्यात् । व्युत्क्रमेण
समाधानमाह – एकत्रेति ।
अमिन्नाशयत्वे इत्यर्थः ॥
|| इतरत्र - आशयभेदे । अस्यैव विवरण तथा हीत्यादि ॥ .