________________
586
वेदपौरुषेयत्वसाधनम्
न्यायम पटादिरचनां दृष्ट्वा तस्य चेत् साऽनुमीयते । वेदेऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम् ॥ २३॥
(ईश्वरस्य सशरीरस्य वेदोपदेष्टुत्वेऽपि न काऽपि हानिः । शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कर्तुमशक्यत्वात *कदाचिदीश्वरः शरीरमपि गृह्णीयादिति कहप्यते। नियतशरीरपरिग्रहाभावाच्च व्यासादिवदसौ न स्मर्यते। ततश्च
अद्य सद्यः कविः काव्ये यथा कर्तेति मीयते। तथा तत्काल जैः पुंभिः सोऽपि कर्तेति मास्यते ॥ २४ ॥ यथा परकृता शङ्का तस्मिन् काव्ये व्यति ते। वेदेऽप्यन्यकृता शङ्का तथा तेषां व्यपैष्यति ॥ २५ ॥ 'परोक्षमनुमानेन यच्च बुध्यामहे वयम् । प्रत्यक्ष योगिनां तच्चेत्युक्तं प्रत्यक्षलक्षणे ॥ २६ ॥ प्रत्यक्षमनुमानं च तदेवं कर्तृता मितौ । मूलप्रमाणमस्तीति *स्मृतौ 'नान्ध'परंपरा ॥ २७ ॥ मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः। . यथोदितानुमानादिप्रमाणान्तरसंभवात् ॥ २८॥ , * कदाचित्- सृष्टयादौ, धर्मग्लान्यादौ वा । + नियतेति। दिव्यमानुषादिप्रतिनियतेत्यर्थः ।
* अद्येत्यादि। दृश्यन्ते हीदानीमपि काश्चिद्वचना: अज्ञातकर्तृकाः पौकषेयत्वेन च संप्रतिपन्ना: प्रपञ्चहृदयाद्याः॥
तस्मिन् - तत्पुरतो रचिते ॥ । तेषां सर्गाद्यकालिकानां पुंसाम् ।। " वेदानामीश्वरकृतत्ये प्रत्यक्षमप्यस्तीत्याह-परोक्षमिति ॥ ** स्मृतौ-पौरुषेयत्वे इति शेष: कर्तृस्मृताविति वा ॥
1 निन्दा-ख.