________________
आह्निकम् ४) वेदसककत्वानुमाने दोषोद्धारः
585 *प्रतिवन्धमहिना प्रामाण्यसिद्धेः। न हि तस्यानुपलब्धिनिरासापेक्षं प्रामाण्यम् ॥
सिकर्तकत्वानुमानेन कर्चस्मरणं बाध्यत एव] तत्रतत् स्यात--- न वयं कत्रमावे प्रामाण्यं ब्रूमः। सकललोकपदार्थव्यवहारिणो हि मीमांसकाः। परं तु वेदस्य पौरुषेयतां ब्रुवाणं प्रमाणं पृच्छामः। तच्चास्य नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठत इति-स्यादेतदेवम् -- यद्यनुमानं न स्यात्। उक्तं च 'रचनात्वात्' इत्यनुमानम्॥ . [रचना बहेतोः सकर्तृत्वसाधने पर्याप्तत्ववर्णनम् ] ___ यत्पुनरवादि-वेदेषु पुरुषस्य कर्तृत्वमशक्यं ग्रहीतु मिति (पु. 513). तदप्यसाधु---परोक्षस्य कुविन्दादेरभिनव'प्रावरक'पटादौ कार्ये कथं कर्तताऽवगम्यते ?
*प्रतिबन्धमहिम्ना--व्याप्तिबलेन । अन्यथा तु एतादृशदोषः धूमात् वह्नयनुमानेऽपि समान इत्यर्थः ।
___ अथवा--सकर्तकत्वानुमानस्य प्रामाण्ये कर्चस्मरणस्य बाधः, कर्बस्मरणस्य बाधे सिद्ध एव तादृशानुमानप्रामाण्यमित्यन्योन्याश्रयः । प्रतिबन्धेत्यादि। अनुमानप्रामाण्यं तु अनौपाधिकसम्बन्धाधीनम् । सम्बन्धश्च साध्यहेत्वोदेव। अनुपलभस्तु साध्यस्य पक्षे वक्तव्या। अतश्चेयमनुपलब्धि: न व्याप्तिग्रह उपरोद्भुमलम्। ननु तर्हि ह्रदे धून वह्नः साधने कथं बाधस्य दोषत्वमिति चेत्-तत्रानुपलम्भः अप्रत्यक्षरूपः, न तु अस्मरणादिरूपः । अतः तेन तत्र पक्षे बाधे पर्यवसानम् : नैवमत्र वेदे कनुपलभः कस्यचिद्वर्तते। अत एव खलु भवताऽप्यस्मरणमेव हेतूकृतम्। अस्मरणं तु अन्यथासिद्धमित्युपपादितमेव। अत इयमनुपलब्धिः न व्याहिं निरोद्धमलमिति भावः ॥
जानीमो वयमिदम्। न हि वयं धूमात् वह याद्यनुमानमेव निराकुर्मः । किन्तु वेदस्य पौरुषेयत्वे प्रमाणाभावात्, कर्तुरस्मरणाञ्च वेदपौरुषेयत्वं स्वतःसिद्धं बदाम इत्याशयवान् शङ्कते- तत्रेत्यादि।।
कभावे-कञभावनिर्णये सत्येव । यदधीना अन्योन्याश्रयादिप्रलक्तिरुक्ता॥
। सवरक-ख. (पु. 501).