________________
9.8
उद्देशस्त्रविवरणम्
न्यायमचरी १४-१६. छलजातिनिग्रहस्थानानि जल्पवितण्डोपकरणानि । तेषामवधृतस्वरूपाणां स्ववाक्ये परिवर्जनं, क्वचिदवसरे प्रयोगः, परप्रयुक्तानां च प्रतिसमाधानं, इत्यादि शक्यक्रियम् । अतस्तान्यपि जल्पवितण्डाङ्गत्वात् ज्ञातव्यानीति पृथगुपदिश्यन्ते ॥
दुशिक्षितकुतकांशलेशवाचालिताननाः। शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः॥ ३३॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः। मा गादिति छलादीनि प्राह कारुणिको मुनिः ॥ ३४॥ तदेवमुपदेष्टव्याः पदार्थाः संशयादयः । तन्मूलन्यायनिर्णेयवेदप्रामाण्य सिद्धये ॥ ३५॥ तेनागमप्रमाणत्वद्वाराऽखिलफलप्रदा।
इयमान्वीक्षिकी विद्या विद्यास्थानेषु गण्यते ॥ ३६॥ माह च भाष्यकार:
'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयस्सर्वधर्माणां विद्योद्देशे परीक्षिता॥'
जल्पवितण्डोपकरणानि-जल्पवितण्डयोरुपकरणानि। क्वचिदिति । स चावसरः 'दुष्टतार्किक' इत्यादिना अनुपदमेवोक्तः। जल्पवितण्डयोरावश्यकतामुपपादयति-दुश्शिक्षितेत्यादि । सुशिक्षित इतिवत् दुशिक्षित इति । दुशिक्षितानां कुतार्किकानां ये कुतकांशलेशाः, तै: वाचालितानि 'वाचालो बहुगर्हवाक् ', भाननानि येषां तादृशाः. वितण्डाटोपपण्डिताः भन्यथाजल्पवितण्डे विना जेतुं शक्या: किम् ? न कथञ्चिदपीत्यर्थः। तत्प्रतारितःवितण्डाटोपपण्डितवञ्चितः। तेनेत्यादि। सर्वपुरुषार्थरत्नाकरे वेदे प्रामाण्यस्थापनात् इयमपि विद्या अखिलपुरुषार्थसाधनमिति भावः ॥
प्रदीप इत्यादि । प्रमाणमेव खलु परीक्षकाणां चक्षुः । प्रमाणशास्त्रं चेदं सर्वविद्यानां भवति प्रदीपतुल्यम् । एवं अहरह:प्रवृत्तीनां सर्वासामपि अनुमानमूलत्वात् सर्वकर्मणामुपाय: । भोजनादावपि हि ह्योदृष्टेष्टसाधनत्वनिश्चयात्प्रवर्तन्ते सर्वे। अत एव सर्वधर्माणां माश्रय:-आधार:--
1 संविदे-ख.