________________
पातिकम् १] षोडशपदार्थतत्त्वज्ञानस्योपयोगः
27 १०. वादे त विचार्यमाणो न्यायः संशयच्छेदनेनाध्य'वसितावोधं अध्यवसिताभ्यनुज्ञा' च विदधत् तत्त्वपरिशुद्धिमादधातीति वीतरागैः शिप्रासब्रह्मचारिभिस्सह वादः प्रयोक्तव्यः ॥
११-१२. जल्पवितण्डे तु दुष्टतार्किकोपरचितकपटदूषणाडम्बरसन्त्रास्यमानसरलमतिसमाश्वासनेन तद्धदयस्थतत्त्वज्ञानसंरक्षणाय क्वचिदवसरे वीतरागस्याप्युप'युज्यते' इति वक्ष्यामः ।
१३. हेत्वाभासाः सम्यन्यायप्रविवेकोपकारद्वारेण तदुपयोगिनः। हेत्वाभासस्वरूपावधारणे हि सति तद्विलक्षणतया हेतवस्सुखमवगम्यन्ते ॥
नन्वत्र विपर्ययो दृश्यते ; हेत्ववगमे सति तदितरहेत्वाभास व्यवस्थापनात्--सत्यमेवम्-तथाऽपि प्रयोक्तुं परिहर्तुं च द्वयमपि क्षेयम्। हेतवः प्रयुज्यन्ते, हेत्वाभासाश्च परिह्रियन्त इति ॥ ___ यच्च निग्रहस्थानपरिगणिता अपि हेत्वाभासाः पुनरुपदिश्यन्ते, तत् वादे चोदनीया भविष्यन्तीत्याशयेन ॥
वादस्य स्वरूपं । तदावश्यकतोपपादनद्वारा संक्षिप्य कथयति-वादे विति। अध्यवसितावबोधं-अध्ववसितरूपं अवयोधं-संशयोत्तरसत्वनिर्णयमिति यावत् । अध्यवसिताभ्यनुज्ञां-पूर्वमवगतार्थसंवादम् । धकारो वाऽर्थे ।
ननु वादस्य कथञ्चिद्वीतरागैः परिग्रहेऽपि विजिगीपुकथारूपस्य जरूपस्य, स्वपक्षस्थापनाहीनपरपक्षदूषणरूपवितण्डायाश्च कथं वीतरागपरिग्राह्यस्वमित्यत्राह-जल्पवितण्डे विति । तथोक्तं-' तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत्' (4-2-50) इति। तद्धदयस्थेति । सरलमतिहृदयस्थेत्यर्थः ।
तदुपयोगिनः-सम्पङ्ग्यायोपयोगिनः, तत्वज्ञानोपयोगिनो वा ॥ . हेतवः-सद्धतवः। चोदनीयाः-उद्भावनीयाः ॥
मध्य-क.
'भ्यनुज्ञातं-ख.
'युज्यन्ते-ख.
विचार्यमाणे-ख. प्रयोक्तुं च-स.