________________
- मद्देशसूत्रविवरणम्
न्यायमचरी [अनुमानपदेनापि न निर्णयलाभः] ननु अनुमानपदादेष तर्हि यथाभिलषितो लप्स्यते 'निर्णयः। प्रतिबद्धाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं, स एव न निर्णयःतदयुक्तम्-अनुमानफलं निर्णयः, नानुमानम्। करणस्य प्रमाणत्वान्निर्णयोपादानमन्तरेण तदनुमान मफलमपर्यवसितं स्यात् ॥
[तत्वज्ञानानुमानपदाभ्यामपि न निर्णयलाभ: उभाभ्यां तर्हि तत्त्वज्ञानानुमानपदाभ्यां अयमाक्षेप्स्यते निर्णयः; अनुमानस्य तत्त्वज्ञानान्तत्वात्-न-निर्णयोपादानाद्विना तदन्तत्वासिद्धः; लिङ्गाभाससमुत्थतत्त्वज्ञानाभाससम्भवात्.॥ .
[तत्त्वज्ञानानुमानसंशयपदैरपि न निर्णयलाभः! ___ ननु संशयपूर्वकत्वादनुमानस्य 'सामर्थ्यात् निर्णयान्ततैष भविष्यति इति संशयानुमानतत्त्वज्ञानपदैर्गतार्थो . निर्णयःमैवम्-संशयपूर्वकत्वेऽप्यनुमानस्य तदाभासोपजनितनिर्णयाभाससम्भवात् ॥
नैष नियमः-संशयपूर्वकमनुमानमिति। तस्मादनुमानस्य 'विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादेयमित्यलं प्रसङ्गेन । ___अनुमानफलमिति। अनुमितिर्हि भनुमानफलं। भनुमितिरेव निर्णयरूपः, प्रत्यक्षानुमित्युपमितिशाब्दज्ञानानामेव निर्णयपदार्थत्वादिति ॥
गतार्थो निर्णय इति। संशयानन्तरं तर्कादिजन्मा हि निर्णयः म साभासरूपः स्यादित्यभिमानः। तादृशमभिमानमेवापनुदति-मैवमिति ॥
तदाभासः-अनुमानाभासः ; व्याप्तिभ्रम इति यावत् ॥
नैष नियम इति। 'श्रोतव्यो मन्तव्यः' इत्युक्तश्रवणानन्तरभाविमननस्यानुमानात्मकस्य संशयपूर्वकत्वाभावादित्यर्थः। विशिष्टति। उक्ततत्त्वज्ञानविलक्षणेत्यर्थः॥
षतो-क.
निर्णय:-ख.
फळ-क. 'निर्णया-क.