________________
25
पातिकम् १] षोडशपदार्थतत्त्वज्ञानस्योपयोगः स चाशयशुद्धिमुपदर्शयितुं वादे 'प्रयोक्ष्यते ॥ . ___९. अन्यतराधिकरणनिर्णय मन्तरेण न पर्यवस्यति न्याय इति न्यायो परमकारणत्वेन तस्य प्रवर्तको निर्णयः। इतरथा निरवसानमनासादितफलं को नाम न्यायमारभेत ॥
तित्वज्ञानपदेन न निर्णयलाभ: ननु तत्त्वज्ञानपदेन गतार्थत्वान्न पृथक् वक्तव्यो निर्णयः । निर्णयो हि तत्त्वज्ञानमेव-अस्त्येतत्-किन्तु षोडशपदार्थतत्त्वशानं प्रमाणान्तरकरणकमपि भवति । न तस्य न्यायोपरमहेतुत्वम् । एष तु साधनदूषणसरणिक्षोदजन्मा निर्णयः तदुपरमहेतुः पृथगुपादानमन्तरेण न लभ्यते ॥ ननु यदि न तर्क: स्वतन्त्रं प्रमाण तर्हि 'प्रमाणतर्कसाधनोपालंभः' इति पादलक्षणे कथं विशेषणदानम्। प्रमाणैः तश्च स्वपक्षसाधनं परपक्षोपालंभश्चेति खलु तदर्थः। अतश्च तर्कोऽपि स्वतन्त्रं प्रमाणमेवेति चेत् तत्राहस चेति।. विषयशुद्धयर्थमेव तर्कापेक्षा। न तु स स्वतन्त्रं प्रमाणम् । प्राधान्यात्तु तस्यापि सहपाठः। यदि तर्कोऽपि प्रमाण, तर्हि सूत्रकारः प्रमाण वर्कश कथं पृथक् निर्दिशेत्। अत: वादेऽपि विषयशुद्धयर्थमेव तर्कः। वादसूत्रवार्तिकेऽप्ययमर्थः स्पष्टीकृतः उद्योतकारेण ॥
अन्यतराधिकरणनिर्णय-अन्यतरसिद्धान्तनिर्णयम्। तस्य-न्यायस्य ।।
प्रमाणान्तरकरणकं-आप्तवाक्यजन्यम् । श्रुत्यादिवाक्यैरपि तस्वज्ञानं जातमेव, तहााय खलु न्यायमपेक्षते पुरुष इति न्यायेनैवाविकम्प्यो निर्णयो भवितुमर्हति । उक्तं च 'भाष धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्त•णानुसन्धत्ते स धर्म वेद नेतरः' इति। तदुपरमहेतु:-न्यायोपरमहेतुः। पदार्थतत्त्वज्ञानात पदार्थतत्त्वनिर्णयः किञ्चिद्विशिष्यत इति पृथनिर्देश आवश्यक इत्यर्थः॥
मन्तरेण न पर्यवस्यति न्यायो-ख. मन्तरेण पर्यवस्यति
'प्रयोक्ष्यत इति-स्व. न्याय इति न्यायो-क,