________________
24 उद्देशसूत्रविवरणम्
न्यायमचरी . ननु प्रतिशोदाहरणाभ्यां तदभिधेयो सिद्धान्तदृष्टान्तौ गम्येते एव; किं पृथगुपादानेन ? –'न-यद्येवं' हेत्वाख्येनावयवेन तदभिधेयसिद्धरनुमानमपि पृथक् न वक्तव्यं स्यात् । एवं भवतु किं नश्छिन्नम्-मैवम-अभिधेये न्याये निरूपणीये तदभिधायिनामवयवानामवसर इति तदर्थः पृथक् प्रतिपादनार्हो भवति । इतरथा अवयवमात्रोपदेश एव शास्त्रं समाप्येत ॥ . . ..
८. तर्कः-संशयविज्ञानविषयीकृततुल्यकल्पपक्षद्वयेऽन्यतरपक्षशैथिल्यसमुत्पादनेन तदितरपक्षविषयं प्रमाण अक्लेशसंपद्यमानप्रति-. पक्षव्युदासमनुगृह्णाति मार्गशुद्धिमादधान इति पृथगुपदिश्यते। .
प्रतिशोदाहरणाभ्यां सिद्धान्तदृष्टान्ताविस्यत्र यथासङ्घयमन्वयः । तदभिधेयसिद्धरिति। व्याप्तस्यैव हेतुत्वादिति भावः। इष्टापत्तिरेव तत्रास्माकमित्याह--एवं भवत्विति । 'न्याये. निरूपणीये-न्याये निरूपणीयत्वेन प्राप्ते तदानीमवयवाः प्रयोक्तव्याः; सिद्धान्ताद्यधीनप्रवृत्तिकत्वाच न्यायस्य सिद्धान्तादयः पृथग्वक्तव्या इत्यर्थः । तदभिधायिनांतस्प्रतिपादकानाम् । पृथक्प्रतिपादनाह इत्यस्य प्रतिज्ञादिरिति शेषः । अवयवमात्रोपदेश इति। सर्वस्यापि शास्त्रार्थस्य न्यायवाक्य एवं परिसमाप्तत्वादिति भावः ॥
___ अक्लेशसंपद्यमानप्रतिपक्षव्युदासं इति क्रियाविशेषणं विधेयविशेषणं वा। मार्गशुद्धिमिति। प्रतिबन्धादिनिरसने प्रमाणप्रवृत्तिं सुलभां करोति तर्क इत्यर्थः । यथा-मात्मा नित्यः? उतानित्यः ? इति संशये 'प्रजापति: प्रजा असृजत' 'न जायते म्रियते वा' इत्याद्यागमानामुभयपक्षानुगुण्यादागमेनाप्यनिर्णये, हेतोरनुपलभेनानुमानस्याप्यप्रवृत्ती, प्रत्यक्षस्य सुतरामप्रवृत्तौ च तर्क एव प्रमाणे प्रवर्तयति-यद्यात्माऽनित्य: स्यात् तर्हि कृतहानाकृताभ्यागमप्रसङ्गः, यदि नित्यः तर्हि स्वकृतं स्वयमुपभुञ्जयादिति तर्कानुगृहीतमनुमानं-आत्मा नित्य: विचित्रनिग्नतफलभोक्तृत्वात्-इत्येवंविधं प्रवर्तते। तर्काननुगृहीतं तु दुर्बलमेव। भतश्च तर्कः स्वयं प्रमाणमभवदपि प्रमाणानुग्राहकः ।
याव-ख.
प्रथमं व्युत्पादनाहों-ख.